Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1312

1875 Mantra
Devata- पवमानः सोमः Rishi- शतं वैखानसाः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प꣡व꣢मान꣣꣬ व्य꣢꣯श्नुहि र꣣श्मि꣡भि꣢र्वाज꣣सा꣡त꣢मः । द꣡ध꣢त्स्तो꣣त्रे꣢ सु꣣वी꣡र्य꣢म् ॥१३१२

प꣡व꣢꣯मान । वि । अ꣣श्नुहि । रश्मि꣡भिः꣢ । वा꣣जसा꣡त꣢मः । वा꣣ज । सा꣡त꣢꣯मः । द꣡ध꣢꣯त् । स्तो꣣त्रे꣢ । सु꣣वी꣡र्य꣢म् । सु꣣ । वी꣢र्य꣢꣯म् ॥१३१२॥

Mantra without Swara
पवमान व्यश्नुहि रश्मिभिर्वाजसातमः । दधत्स्तोत्रे सुवीर्यम् ॥१३१२

पवमान । वि । अश्नुहि । रश्मिभिः । वाजसातमः । वाज । सातमः । दधत् । स्तोत्रे । सुवीर्यम् । सु । वीर्यम् ॥१३१२॥

Samveda - Mantra Number : 1312
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (पवमान) पावक सोम परमात्मन् ! (वाजसातमः) अतिशयेन बलस्य संभक्ता दाता वा त्वम् (स्तोत्रे) उपासकाय मह्यम् (सुवीर्यम्) सुवीर्योपेतं गुणगणम् (दधत्) प्रयच्छन् सन् (रश्मिभिः) तेजःकिरणैः सह (व्यश्नुहि) प्राप्नुहि ॥३॥
Essence
जगदीश्वरस्य स्तोता तस्मात् तेजोबलवीर्यसत्याहिंसान्यायदया- दाक्षिण्यादिकं प्राप्य यशस्वितमो जायते ॥३॥
Subject
अथ परमात्मा प्रार्थ्यते।