Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1311

1875 Mantra
Devata- पवमानः सोमः Rishi- शतं वैखानसाः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प꣣व꣢मानो र꣣थी꣡त꣢मः शु꣣भ्रे꣡भिः꣢ शु꣣भ्र꣡श꣢स्तमः । ह꣡रि꣢श्चन्द्रो म꣣रु꣡द्ग꣢णः ॥१३११॥

प꣡व꣢꣯मानः । र꣣थी꣡त꣢मः । शु꣣भ्रे꣡भिः꣢ । शु꣣भ्र꣡श꣢स्तमः । शु꣣भ्र꣢ । श꣣स्तमः । ह꣡रि꣢꣯श्चन्द्रः । ह꣡रि꣢꣯ । च꣣न्द्रः । मरु꣡द्ग꣢णः । म꣣रु꣢त् । ग꣣णः ॥१३११॥

Mantra without Swara
पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः । हरिश्चन्द्रो मरुद्गणः ॥

पवमानः । रथीतमः । शुभ्रेभिः । शुभ्रशस्तमः । शुभ्र । शस्तमः । हरिश्चन्द्रः । हरि । चन्द्रः । मरुद्गणः । मरुत् । गणः ॥१३११॥

Samveda - Mantra Number : 1311
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(पवमानः) पावकः सोमः जगत्स्रष्टा परमेश्वरः (रथीतमः) रथवत्सु श्रेष्ठः। [रथितमः इति प्राप्ते ‘ईद् रथिनः’। अ० ८।२।१७ वा० इत्यनेन इकारस्य ईकारादेशः।] (शुभ्रेभिः) शुभ्रैः गुणैः (शुभ्रशस्तमः) निर्मलतमयशोयुक्तः, (हरिश्चन्द्रः) हृदयहार्याह्लादः। [हरिः मनोहरः चन्द्रः आह्लादो यस्य सः। चदि आह्लादे। ‘ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे’ अ० ६।१।१५१ इति सुडागमः।] (मरुद्गणः) मरुतः प्राणा वायवो वा गणा यस्य तथाविधश्च वर्तते ॥२॥
Essence
सूर्यचन्द्रपवनविद्युदादयो मानवदेहाश्च यस्य रथाः सन्ति स यशस्वितमः परमानन्दः प्राणादीनां नायकः परमेश्वरः सर्वैर्ज्ञातव्यः ॥२॥
Subject
अथ परमात्मनो गुणान् वर्णयति।