Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1310

1875 Mantra
Devata- पवमानः सोमः Rishi- शतं वैखानसाः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प꣡व꣢मानस्य꣣ जि꣡घ्न꣢तो꣣ ह꣡रे꣢श्च꣣न्द्रा꣡ अ꣢सृक्षत । जी꣣रा꣡ अ꣢जि꣣र꣡शो꣢चिषः ॥१३१०॥

प꣡व꣢꣯मानस्य । जि꣡घ्न꣢꣯तः । ह꣡रेः꣢꣯ । च꣣न्द्राः꣢ । अ꣣सृक्षत । जीराः꣢ । अ꣣जिर꣡शो꣢चिषः । अ꣣जिर꣢ । शो꣣चिषः ॥१३१०॥

Mantra without Swara
पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत । जीरा अजिरशोचिषः ॥

पवमानस्य । जिघ्नतः । हरेः । चन्द्राः । असृक्षत । जीराः । अजिरशोचिषः । अजिर । शोचिषः ॥१३१०॥

Samveda - Mantra Number : 1310
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(पवमानस्य) अन्तरात्मानं पुनानस्य, (जिघ्नतः) दोषान् विनाशयतः [हन्तेः शतरि छान्दसः शपः श्लुः।] (हरेः) चित्ताकर्षकस्य परमात्मनः (चन्द्राः) आह्लादकारिण्यः,(अजिरशोचिषः) अक्षयरोचिषः, (जीराः) क्षिप्रगामिन्यः आनन्दधाराः। [जीराः इति क्षिप्रनाम। निघं० २।१५।] (असृक्षत) विसृज्यन्ते ॥१॥
Essence
परमात्मन आनन्दधारासु निमज्ज्य स्तोतारो निर्मलान्तःकरणाः सन्तः कृतकृत्या जायन्ते ॥१॥
Subject
तत्रादौ परमात्मनो धारा वर्णयति।