Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 131

1875 Mantra
Devata- इन्द्रः Rishi- त्रिशोकः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣡पि꣢बत्क꣣द्रु꣡वः꣢ सु꣣त꣡मिन्द्रः꣢꣯ स꣣ह꣡स्र꣢बाह्वे । त꣡त्रा꣢ददिष्ट꣣ पौ꣡ꣳस्य꣢म् ॥१३१॥

अ꣡पि꣢꣯बत् । क꣣द्रु꣡वः꣢ । क꣣त् । द्रु꣡वः꣢꣯ । सु꣣त꣢म् । इ꣡न्द्रः꣢꣯ । स꣣ह꣡स्र꣢बाह्वे । स꣣ह꣡स्र꣢ । बा꣣ह्वे । त꣡त्र꣢꣯ । अ꣣ददिष्ट । पौँ꣡स्य꣢꣯म् । ॥१३१॥

Mantra without Swara
अपिबत्कद्रुवः सुतमिन्द्रः सहस्रबाह्वे । तत्राददिष्ट पौꣳस्यम् ॥

अपिबत् । कद्रुवः । कत् । द्रुवः । सुतम् । इन्द्रः । सहस्रबाह्वे । सहस्र । बाह्वे । तत्र । अददिष्ट । पौँस्यम् । ॥१३१॥

Samveda - Mantra Number : 131
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(इन्द्रः) विघ्नविदारको बलदायकः परमेश्वरः (सहस्रबाह्वे२) सहस्रं बहवः कामक्रोधाद्याः बाहवः शाखाप्रशाखाः यस्य सः सहस्रबाहुः पापरूपो दैत्यः तस्मै, तं हन्तुमित्यर्थः। क्रियार्थोपपदस्य च कर्मणि स्थानिनः अ० २।३।१४ इति चतुर्थी। सहस्रबाहवे इति प्राप्ते जसादिषु छन्दसि वावचनं प्राङ् णौ चङ्युपधाया ह्रस्वः अ० ७।३।१०९ वा० इति गुणस्य विकल्पनात् तदभावे यणादेशः। (कद्रुवः३) यः कवते गच्छति क्रियाशीलो भवति, यद्वा यः कवते स्तौति स कद्रुः तस्य पुरुषार्थिनः स्तोतुर्वा जनस्य। कवते गतिकर्मा। निघं० २।१४, कुङ् शब्दे भ्वादिः। कद्रुशब्दस्य जत्र्वादिगणे पाठात् जत्र्वादयश्च उ० ४।१०३ इत्यनेन रुः प्रत्ययः, गुणेऽवादेशे वकारस्य दकारश्च। (सुतम्) अभिषुतं भक्तिरूपं सोमरसम् (अपिबत्) पिबति, (तत्र) तस्मिन् जने च (पौंस्यम्) पुंसि भवं पौंस्यं बलम्। पौंस्यानि इति बलनामसु पठितम्। निघं० २।९। (अददिष्ट४) ददाति दद दाने, कालसामान्ये लुङ् ॥७॥
Essence
मानवोऽयमतिनिर्बलः, कामक्रोधादिसहस्रबाहुमान् पापरूपो दैत्यस्तं स्ववशं चिकीर्षति। मानवः क्रियाशीलः पुरुषार्थी च भूत्वा भक्तवत्सलं, विपत्तिविदारकं, शक्तिदायकं परमात्मानं समुपास्य, ततो बलं संचित्य तं सहस्रबाहुं शत्रुं प्रताडयेत् ॥७॥ अत्र स्वकल्पनयैव केनचित् कद्रूर्नाम भार्या, अपरेण कद्रुर्नाम यजमानः, अन्येन कद्रुर्नाम ऋषिः, इतरेण च कद्रुर्नाम राजा स्वीकृतः। इतरेतरविरुद्धानि तद्वचांसि परस्परमेव खण्डयन्ति। वस्तुतस्तु वेदे लौकिकेतिहासान्वेषणम् शशे विषाणरोपणप्रयासवन्निरर्थकमेवेति नैरुक्तपद्धतिरेव श्रेयसी ॥७॥
Subject
अथ स्तोता परमेश्वरभक्त्या किं प्राप्नोतीत्याह।
Footnote
१. ऋ० ८।४५।२६ अत्रादेदिष्ट पौंस्यम् इति पाठः। २. सहस्रं बाहवः कर्तारो यत्र तत् सहस्रबाहु सत्रम्, तस्मिन् पीतवानित्यर्थः—इति वि०। यः सहस्रं वहति प्रापयति ददातीति सहस्रबाहुः। सहस्रं बाहवो यस्य सन्तीत्यपरे—इति भ०। सहस्रबाह्वाख्यं शत्रुमहन्निति शेषः—इति सा०। ३. कद्रूर्नाम काश्यपस्य भार्या, तस्याः स्वभूतं सुतम् अभिषुतं सोमम्—इति वि०। कद्रुवः कद्र्वाख्यस्य यजमानस्य—इति भ०। कद्रुनामकस्य ऋषेः—इति सा०। ४. अददिष्ट अत्यर्थं दृश्यते, वर्ण्यते इत्यर्थः। केन ? सामर्थ्यान्मन्त्रैः—इति वि०। दिशतेर्वा ददातेर्वा रूपम्। अददिष्टेति अदिशदिति वा अददादिति वा। दीद्यतेः दीप्तिकर्मणो रूपमेतदित्यपरे। अदीपयदिति वा—इति भ०। आददिष्ट आदीप्यत—इति सा०।