Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1309

1875 Mantra
Devata- इन्द्रः Rishi- वत्सः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प्र꣣जा꣢मृ꣣त꣢स्य꣣ पि꣡प्र꣢तः꣣ प्र꣡ यद्भर꣢꣯न्त꣣ व꣡ह्न꣢यः । वि꣡प्रा꣢ ऋ꣣त꣢स्य꣣ वा꣡ह꣢सा ॥१३०९॥

प्र꣣जा꣢म् । प्र꣣ । जा꣢म् । ऋ꣣त꣡स्य꣢ । पि꣡प्र꣢꣯तः । प्र । यत् । भ꣡र꣢꣯न्त । व꣡ह्न꣢꣯यः । वि꣡प्राः꣢꣯ । वि । प्राः꣣ । ऋत꣡स्य꣢ । वा꣡ह꣢꣯सा ॥१३०९॥

Mantra without Swara
प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः । विप्रा ऋतस्य वाहसा ॥

प्रजाम् । प्र । जाम् । ऋतस्य । पिप्रतः । प्र । यत् । भरन्त । वह्नयः । विप्राः । वि । प्राः । ऋतस्य । वाहसा ॥१३०९॥

Samveda - Mantra Number : 1309
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यत्) यदा (वह्नयः) ब्रह्मयज्ञस्य वोढारः उपासकाः (पिप्रतः) पालयतः [पॄ पालनपूरणयोः, शतृः।] (ऋतस्य) सत्यस्य (प्रजाम्) प्रकर्षेण जनयितारं परमेश्वरम् (प्र भरन्त) अन्तरात्मनि धारयन्ति, तदा ते (विप्राः) विद्वांसो जनाः (ऋतस्य) सत्यस्य (वाहसा) वाहसः प्रचारका जायन्ते। [वाहस् शब्दाज्जसि ‘सुपां सुलुक्०’ अ० ७।१।३९ इत्यनेन जस आकारादेशः] ॥३॥
Essence
सत्यज्ञानस्य सत्यकर्मणश्चादर्शभूतं परमात्मानमनुभूय स्वजीवने सत्यमानीयैव सत्यं प्रचारयितुं सुशकम् ॥३॥ अस्मिन् खण्डे परमात्मविषयवर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्तीति वेद्यम् ॥
Subject
अथ सत्यस्य विषयमाह।