Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1308

1875 Mantra
Devata- इन्द्रः Rishi- वत्सः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
क꣢ण्वा꣣ इ꣢न्द्रं꣣ य꣡दक्र꣢꣯त꣣ स्तो꣡मै꣢र्य꣣ज्ञ꣢स्य꣣ सा꣡ध꣢नम् । जा꣣मि꣡ ब्रु꣢व꣣त आ꣡यु꣢धा ॥१३०८॥

क꣡ण्वाः꣢꣯ । इ꣡न्द्र꣢꣯म् । यत् । अ꣡क्र꣢꣯त । स्तो꣡मैः꣢꣯ । य꣣ज्ञ꣡स्य꣢ । सा꣡ध꣢꣯नम् । जा꣣मि꣢ । ब्रु꣣वते । आ꣡यु꣢꣯धा ॥१३०८॥

Mantra without Swara
कण्वा इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनम् । जामि ब्रुवत आयुधा ॥

कण्वाः । इन्द्रम् । यत् । अक्रत । स्तोमैः । यज्ञस्य । साधनम् । जामि । ब्रुवते । आयुधा ॥१३०८॥

Samveda - Mantra Number : 1308
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यत्) यदा (कण्वाः२) मेधाविनः स्तोतारः। [कण्व इति मेधाविनाम। निघं० ३।१५।] (इन्द्रम्) विघ्नविदारकं परमैश्वर्यवन्तं परमात्मानम् (स्तोमैः) स्तोत्रैः (यज्ञस्य) स्वकीयस्य शतसंवत्सरात्मकस्य जीवनयज्ञस्य (साधनम्) साधकम् (अक्रत) अकृषत, कुर्वन्ति। [अत्र करोतेर्लडर्थे लुङि ‘मन्त्रे घसह्वर०’। अ० २।४।८० इत्यनेन च्लेर्लुक्।] तदा ते (आयुधा) रक्षासाधनानि आयुधानि (जामि) अतिरिक्तम्। [जामि—अतिरेकनाम इति निरुक्तम्। ४।२०।] (ब्रुवते) कथयन्ति। यज्ञ इन्द्रेणैव साधितः, किमेभिः संगृहीतैरायुधैरित्यायुधानां व्यर्थत्वं ब्रुवन्तीत्यर्थः३ ॥२॥
Essence
आत्मानं परमात्मने समर्प्य तद्रक्षणं सर्वैः प्राप्तव्यम् ॥२॥
Subject
अथ पुनस्तमेव विषयं प्राह।