Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1307

1875 Mantra
Devata- इन्द्रः Rishi- वत्सः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
म꣣हा꣢꣫ꣳ इन्द्रो꣣ य꣡ ओज꣢꣯सा प꣣र्ज꣡न्यो꣢ वृष्टि꣣मा꣡ꣳ इ꣢व । स्तो꣡मै꣢र्व꣣त्स꣡स्य꣢ वावृधे ॥१३०७॥

म꣣हा꣢न् । इ꣡न्द्रः꣢꣯ । यः । ओ꣡ज꣢꣯सा । प꣣र्ज꣡न्यः꣢ । वृ꣣ष्टिमा꣢न् । इ꣣व । स्तो꣡मैः꣢꣯ । व꣣त्स꣡स्य꣢ । वा꣣वृधे ॥१३०७॥

Mantra without Swara
महाꣳ इन्द्रो य ओजसा पर्जन्यो वृष्टिमाꣳ इव । स्तोमैर्वत्सस्य वावृधे ॥

महान् । इन्द्रः । यः । ओजसा । पर्जन्यः । वृष्टिमान् । इव । स्तोमैः । वत्सस्य । वावृधे ॥१३०७॥

Samveda - Mantra Number : 1307
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यः इन्द्रः) यः परमैश्वर्यवान् जगदीश्वरः (वृष्टिमान् पर्जन्यः इव) वृष्टिजलयुक्तो मेघ इव (ओजसा) बलेन (महान्) महिमोपेतः अस्ति सः (वत्सस्य२) स्वपुत्रस्य मानवस्य (स्तोमैः) प्रशस्तिभिः (वावृधे) वर्धते ॥१॥ अत्रोपमालङ्कारः ॥१॥
Essence
यथा पुत्रस्य प्रशस्तिभिः पिता प्रशस्तो जायते, तथैव पूर्वमेव पर्जन्यवन्महानपि परमेश्वरो मानवस्य प्रशस्तिभिर्महत्तरो जायते ॥१॥
Subject
तत्रादौ परमात्मविषयमाह।