Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1305

1875 Mantra
Devata- अग्निः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
स꣢ म꣣ह्ना꣡ विश्वा꣢꣯ दुरि꣣ता꣡नि꣢ सा꣣ह्वा꣢न꣣ग्नि꣡ ष्ट꣢वे꣣ द꣢म꣣ आ꣢ जा꣣त꣡वे꣢दाः । स꣡ नो꣢ रक्षिषद्दुरि꣣ता꣡द꣢व꣣द्या꣢द꣣स्मा꣡न्गृ꣢ण꣣त꣢ उ꣣त꣡ नो꣢ म꣣घो꣡नः꣢ ॥१३०५॥

सः । म꣣ह्ना꣢ । वि꣡श्वा꣢ । दु꣣रिता꣡नि꣢ । दुः꣣ । इता꣡नि꣢ । सा꣣ह्वा꣢न् । अ꣣ग्निः꣢ । स्त꣣वे । द꣡मे꣢꣯ । आ । जा꣣त꣡वे꣢दाः । जा꣣त꣢ । वे꣣दाः । सः꣢ । नः꣣ । रक्षिषत् । दुरिता꣢त् । दुः꣣ । इता꣢त् । अ꣣वद्या꣢त् । अ꣣स्मा꣢न् । गृ꣣णतः꣢ । उ꣣त꣢ । नः꣣ । म꣡घो꣢नः ॥१३०५॥

Mantra without Swara
स मह्ना विश्वा दुरितानि साह्वानग्नि ष्टवे दम आ जातवेदाः । स नो रक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः ॥

सः । मह्ना । विश्वा । दुरितानि । दुः । इतानि । साह्वान् । अग्निः । स्तवे । दमे । आ । जातवेदाः । जात । वेदाः । सः । नः । रक्षिषत् । दुरितात् । दुः । इतात् । अवद्यात् । अस्मान् । गृणतः । उत । नः । मघोनः ॥१३०५॥

Samveda - Mantra Number : 1305
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(मह्ना) महिम्ना (विश्वा) विश्वानि (दुरितानि) पापदुःखदुर्गुणदुर्व्यसनादीनि (साह्वान्) अभिभूतवान्। [सहतेः लिटः क्वसौ ‘दाश्वान्साह्वान्मीढ्वांश्च। अ० ६।१।१२’ इत्यनेन परस्मैपदमुपधादीर्घत्वमद्विर्वचनमनिट्त्वं च निपात्यते।] (जातवेदाः) सर्वज्ञः सर्वान्तर्यामी च (अग्निः) अग्रनायकः परमेश्वरः (दमे) अन्तरात्मरूपे गृहे। [दम इति गृहनाम। निघं० ३।४।] (आ स्तवे) आ स्तूयते। (सः) परमेश्वरः (नः) अस्मान् (अवद्यात्) गर्ह्यात्। [अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु। अ० ३।१।१०१ इति गर्ह्यार्थे निपातनम्।] (दुरितात्) पापात् (रक्षिषत्) रक्षतु। [रक्षतेर्लेटि रूपम्।] (गृणतः) अर्चतः। [गृणातिः अर्चतिकर्मा। निघं० ३।१४।] (अस्मान्) स्तोतॄन् (उत) अपि च (नः) अस्माकम् (मघोनः) धनिकान् पुत्रपौत्रकलत्रादीन् (रक्षिषत्) रक्षतु ॥२॥२
Essence
परमात्मानं ध्यात्वा ततः सत्प्रेरणां प्राप्य वयमस्माकं सम्बन्धिनश्च सर्वाणि दुर्गुणदुर्व्यसनदुःखादीनि दूरीकुर्याम ॥२॥
Subject
अथ परमेश्वरोऽस्मान् कथमुपकुर्यादित्याह।