Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1304

1875 Mantra
Devata- अग्निः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अ꣡ग꣢न्म म꣣हा꣡ नम꣢꣯सा꣣ य꣡वि꣢ष्ठं꣣ यो꣢ दी꣣दा꣢य꣣ स꣡मि꣢द्धः꣣ स्वे꣡ दु꣢रो꣣णे꣢ । चि꣣त्र꣡भा꣢नु꣣ꣳ रो꣡द꣢सी अ꣣न्त꣢रु꣣र्वी꣡ स्वा꣢हुतं वि꣣श्व꣡तः꣢ प्र꣣त्य꣡ञ्च꣢म् ॥१३०४॥

अ꣡ग꣢꣯न्म । म꣣हा꣢ । न꣡म꣢꣯सा । य꣡वि꣢꣯ष्ठम् । यः । दी꣣दा꣡य꣢ । स꣡मि꣢꣯द्धः । सम् । इ꣣द्धः । स्वे꣢ । दु꣣रोणे꣢ । दुः꣣ । ओने꣢ । चि꣣त्र꣡भा꣢नुम् । चि꣣त्र꣢ । भा꣣नुम् । रो꣡द꣢꣯सी꣣इ꣡ति꣢ । अ꣣न्तः꣢ । उ꣣र्वी꣡इति꣢ । स्वा꣡हु꣢तम् । सु । आ꣣हुतम् । वि꣡श्व꣢तः । प्र꣣त्य꣡ञ्च꣢म् । प्र꣣ति । अ꣡ञ्च꣢꣯म् ॥१३०४॥

Mantra without Swara
अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे । चित्रभानुꣳ रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् ॥

अगन्म । महा । नमसा । यविष्ठम् । यः । दीदाय । समिद्धः । सम् । इद्धः । स्वे । दुरोणे । दुः । ओने । चित्रभानुम् । चित्र । भानुम् । रोदसीइति । अन्तः । उर्वीइति । स्वाहुतम् । सु । आहुतम् । विश्वतः । प्रत्यञ्चम् । प्रति । अञ्चम् ॥१३०४॥

Samveda - Mantra Number : 1304
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यः) अग्निः अग्रणीः परमेश्वरः (स्वे) स्वकीये (दुरोणे) ब्रह्माण्डरूपे जीवात्मरूपे वा गृहे। [दुरोण इति गृहनाम, दुरवा भवन्ति दुस्तर्पाः। निरु० ४।५।] (समिद्धः) प्रदीप्तः सन् (दीदाय) दीप्यते। [दीदयतिः ज्वलतिकर्मा। निघं० १।१६।] तम् (यविष्ठम्) युवतमम्, (चित्रभानुम्) अद्भुतप्रकाशम् (उर्वी रोदसी) विस्तीर्णयोः रोदस्योः द्यावापृथिव्योः। [अत्र सुपां सुलुक्० अ० ७।१।३९ इति विभक्तेर्लुक्।] (अन्तः) अभ्यन्तरम् (स्वाहुतम्) सम्यक् कृताहुतिम् (विश्वतः प्रत्यञ्चम्) सर्वत्र व्याप्तम् परमेश्वरम् (महा नमसा) महता नमस्कारेण सह, वयम् (अगन्म) प्राप्नुमः ॥१॥२
Essence
ये सूक्ष्मदर्शिनः सन्ति ते द्यावापृथिव्योः सर्वत्र परमात्मन एव विभूतिं पश्यन्ति ॥१॥
Subject
तत्रादौ परमात्मप्राप्तिविषयमाह।