Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1303

1875 Mantra
Devata- पवमानाध्येता Rishi- पवित्र आङ्गिरसो वा वसिष्ठो वा उभौ वा Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
पा꣣वमानीः꣡ स्व꣣स्त्य꣡य꣢नी꣣स्ता꣡भि꣢र्गच्छति नान्द꣣न꣢म् । पु꣡ण्या꣢ꣳश्च भ꣣क्षा꣡न्भ꣢क्षयत्यमृत꣣त्वं꣡ च꣢ गच्छति ॥१३०३

पावमानीः꣣ । स्व꣣स्त्य꣡य꣢नीः । स्व꣣स्ति । अ꣡य꣢꣯नीः । ता꣡भिः꣢꣯ । ग꣣च्छति । नान्दन꣢म् । पु꣡ण्या꣢꣯न् । च꣣ । भक्षा꣢न् । भ꣣क्षयति । अमृतत्व꣢म् । अ꣣ । मृतत्व꣢म् । च꣣ । गच्छति ॥१३०३॥

Mantra without Swara
पावमानीः स्वस्त्ययनीस्ताभिर्गच्छति नान्दनम् । पुण्याꣳश्च भक्षान्भक्षयत्यमृतत्वं च गच्छति ॥१३०३

पावमानीः । स्वस्त्ययनीः । स्वस्ति । अयनीः । ताभिः । गच्छति । नान्दनम् । पुण्यान् । च । भक्षान् । भक्षयति । अमृतत्वम् । अ । मृतत्वम् । च । गच्छति ॥१३०३॥

Samveda - Mantra Number : 1303
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(पावमानीः) पवमानदेवताका ऋचः (स्वस्त्ययनीः) कल्याणकारिण्यः सन्ति, (ताभिः) ऋग्भिः वेदाध्येता (नान्दनम्) आनन्दधाम मोक्षम्। [नन्दयतीति नन्दनः, स एव नान्दनः स्वार्थिकस्तद्धितप्रत्ययः।] (गच्छति) प्राप्नोति, (पुण्यान् च) पुण्यप्राप्तान् च (भक्षान्) भोगान् (भक्षयति) भुङ्क्ते, (अमृतत्वं च) अमृतस्वरूपं च (गच्छति) विन्दति ॥ मोक्षधाम चैवं वर्णयति श्रुतिः—यत्रा॑न॒न्दाश्च॒ मोदा॑श्च॒ मुदः॑ प्र॒मुद॒ आस॑ते। काम॑स्य॒ यत्रा॒प्ताः कामा॒स्तत्र माम॒मृतं॑ कृ॒धीन्द्रा॑येन्दो परि॑ स्रव ॥ ऋ० ९।११३।११ इति ॥६॥
Essence
पावमानीनामृचामर्थज्ञानपुरःसरं गानेन तदनुकूलाचरणेन चाभ्युदयनिःश्रेयसयोः प्राप्तिर्जायते ॥६॥ अस्मिन् खण्डे पावमानीनामृचामध्ययनफलस्यामृतत्वादेर्वर्णनात् पूर्वस्मिन् खण्डे च परमात्मजीवात्मविषयवर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्तीति वेद्यम् ॥
Subject
अथ वेदाध्यायनस्य फलं वर्णयति।