Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1302

1875 Mantra
Devata- पवमानाध्येता Rishi- पवित्र आङ्गिरसो वा वसिष्ठो वा उभौ वा Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
ये꣡न꣢ दे꣣वाः꣢ प꣣वि꣡त्रे꣢णा꣣त्मा꣡नं꣢ पु꣣न꣢ते꣣ स꣡दा꣢ । ते꣡न꣢ स꣣ह꣡स्र꣢धारेण पावमा꣣नीः꣡ पु꣢नन्तु नः ॥१३०२

ये꣡न꣢꣯ । दे꣣वाः꣢ । प꣣वि꣡त्रे꣢ण । आ꣣त्मा꣡न꣢म् । पु꣣न꣡ते꣢ । स꣡दा꣢꣯ । ते꣡न꣢꣯ । स꣣ह꣡स्र꣢धारेण । स꣣ह꣡स्र꣢ । धा꣣रेण । पावमानीः꣣ । पु꣣नन्तु । नः ॥१३०२॥

Mantra without Swara
येन देवाः पवित्रेणात्मानं पुनते सदा । तेन सहस्रधारेण पावमानीः पुनन्तु नः ॥१३०२

येन । देवाः । पवित्रेण । आत्मानम् । पुनते । सदा । तेन । सहस्रधारेण । सहस्र । धारेण । पावमानीः । पुनन्तु । नः ॥१३०२॥

Samveda - Mantra Number : 1302
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(देवाः) दिव्यगुणयुक्ता विद्वांसः (येन पवित्रेण) येन पूतेन ब्रह्मानन्देन (आत्मानम्) स्वात्मानम् (सदा) सर्वदा (पुनते) पवित्रं कुर्वन्ति (तेन सहस्रधारेण) तेन सहस्रधाराभिः प्रवहता दिव्यानन्देन (पावमानीः) पवमानदेवताका ऋचः (नः) अस्मान् (पुनन्तु) पवित्रान् कुर्वन्तु ॥५॥
Essence
पावमानीनामृचां गानेन तत्र वर्णिते रसागारे परमात्मनि ध्यानेन च कोऽपि दिव्यानन्दरसप्रवाहः प्रसरन्नुपासकानां चेतांसि पवित्रीकरोति ॥५॥
Subject
अथ पुनर्वेदाध्ययनं नः किं प्रापयेदित्याह।