Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1301

1875 Mantra
Devata- पवमानाध्येता Rishi- पवित्र आङ्गिरसो वा वसिष्ठो वा उभौ वा Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
पा꣣वमानी꣡र्द꣢धन्तु न इ꣣मं꣢ लो꣣क꣡मथो꣢꣯ अ꣣मु꣢म् । का꣢मा꣣न्त्स꣡म꣢र्धयन्तु नो दे꣣वी꣢र्दे꣣वैः꣢ स꣣मा꣡हृ꣢ताः ॥१३०१

पा꣣वमानीः꣢ । द꣣धन्तु । नः । इम꣢म् । लो꣣क꣢म् । अ꣡थ꣢꣯ । उ꣣ । अमु꣢म् । का꣡मा꣢꣯न् । सम् । अ꣣र्धयन्तु । नः । देवीः꣡ । दे꣣वैः꣡ । स꣣मा꣡हृ꣢ताः । स꣣म् । आ꣡हृ꣢꣯ताः ॥१३०१॥

Mantra without Swara
पावमानीर्दधन्तु न इमं लोकमथो अमुम् । कामान्त्समर्धयन्तु नो देवीर्देवैः समाहृताः ॥१३०१

पावमानीः । दधन्तु । नः । इमम् । लोकम् । अथ । उ । अमुम् । कामान् । सम् । अर्धयन्तु । नः । देवीः । देवैः । समाहृताः । सम् । आहृताः ॥१३०१॥

Samveda - Mantra Number : 1301
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(पावमानीः) पवमानदेवताका ऋचः (नः) अस्माकम् (इमं लोकम्) इहलोकम् (अथ उ) अपि च (अमुम्) परलोकम् (दधन्तु) धारयन्तु। [दध धारणे भ्वादिः, व्यत्ययेन परस्मैपदम्।] (देवैः) वेदविद्भिः (समाहृताः) अध्यापिताः ताः (देवीः) देव्यः अर्थप्रकाशिका ऋचः (नः) अस्माकम् (कामान्) मनोरथान् (समर्द्धयन्तु) पूरयन्तु ॥४॥
Essence
वेदाध्ययनेन जनाः स्फूर्तिं सत्प्रेरणां च प्राप्येमं च लोकममुं च लोकं सर्वांश्च कामान् समर्द्धयितुमर्हन्ति ॥४॥
Subject
अथ वेदाध्ययनेन किं स्यादित्याकाङ्क्षते।