Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 130

1875 Mantra
Devata- इन्द्रः Rishi- मधुच्छन्दा वैश्वामित्रः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
इ꣡न्द्रं꣢ व꣣यं꣡ म꣢हाध꣣न꣢꣫ इन्द्र꣣म꣡र्भे꣢ हवामहे । यु꣡जं꣢ वृ꣣त्रे꣡षु꣢ व꣣ज्रि꣡ण꣢म् ॥१३०॥

इ꣡न्द्र꣢꣯म् । व꣣य꣢म् । म꣣हाधने꣣ । महा । धने꣢ । इ꣡न्द्र꣢꣯म् अ꣡र्भे꣢꣯ । ह꣣वामहे । यु꣡ज꣢꣯म् । वृ꣣त्रे꣡षु꣢ । व꣣ज्रि꣡ण꣢म् ॥१३०॥

Mantra without Swara
इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे । युजं वृत्रेषु वज्रिणम् ॥

इन्द्रम् । वयम् । महाधने । महा । धने । इन्द्रम् अर्भे । हवामहे । युजम् । वृत्रेषु । वज्रिणम् ॥१३०॥

Samveda - Mantra Number : 130
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(वयम्) परमेश्वरोपासका (राजभक्ताः) प्रजाजना वा (वृत्रेषु२) धर्माच्छादकेषु दुष्टजनेषु दुर्गुणेषु वा (वज्रिणम्) दण्डधारिणम् (युजम्) सहयोगिनं सखायम्। युज्यते इति युक् तम्। युजिर् योगे, क्विप्। (इन्द्रम्) वीरं परमेश्वरं राजानं वा (महाधने) महान्ति धनानि। योगसिद्धिरूपाणि यस्मात् तस्मिन् आन्तरिके महति देवासुरसंग्रामे, महान्ति महार्घाणि धनानि स्वर्णरजतादीनि यस्मात् तस्मिन् बाह्ये च विकरालसंग्रामे । महाधन इति संग्रामनाम। निघं० २।१७। (हवामहे) आह्वयेम। ह्वेञ् स्पर्धायां शब्दे च इति धातोर्लेटो रूपमिदम्। बहुलं छन्दसि अ० ६।१।३४ इति सम्प्रसारणम्। तमेव (इन्द्रम्) परमेश्वरं राजानं च (अर्भे) अल्पेऽपि आध्यात्मिके बाह्ये च युद्धे हवामहे आह्वयेम३। विद्युत्पक्षेऽप्यर्थो योजनीयः। (इन्द्रम्) विद्युतं वयं महासंग्रामेऽल्पे वा संग्रामे (हवामहे) उपयुञ्जीमहि। कीदृशं विद्युदिन्द्रम् ? (युजम्) विमानादियानेषु शस्त्रास्त्रेषु वा योगवन्तम्, (वृत्रेषु) शत्रुषु (वज्रिणम्) विद्युद्गोलकादिरूपस्य वज्रस्य प्रक्षेपणसाधनम् ॥६॥ अत्र श्लेषालङ्कारः ॥६॥
Essence
साधारणेषु विकटेषु वा बाह्याभ्यन्तरेषु देवासुरसंग्रामेषु मनुष्यैर्विजयार्थं सुवीरः परमेश्वरो नृपतिश्चाह्वातव्यः, विद्युदस्त्राणि च निर्माय शत्रवः समूलमुच्छेत्तव्याः ॥६॥
Subject
अथ संग्रामेषु रक्षार्थं वयं किं कुर्यामेत्याह।
Footnote
१. ऋ० १।७।५, अथ० २०।७०।११। २. वृत्रेषु उपद्रवेषु सत्सु—इति भ०। ३. ऋग्भाष्ये दयानन्दर्षिणा प्रथमेन इन्द्रशब्देन परमेश्वरः, द्वितीयेन च इन्द्रशब्देन सूर्यो वायुश्च गृहीतः।