Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 13

1875 Mantra
Devata- अग्निः Rishi- प्रयोगो भार्गवः Chhand- गायत्री Swara- षड्जः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
उ꣡प꣢ त्वा जा꣣म꣢यो꣣ गि꣢रो꣣ दे꣡दि꣢शतीर्हवि꣣ष्कृ꣡तः꣢ । वा꣣यो꣡रनी꣢꣯के अस्थिरन् ॥१३॥

उ꣡प꣢꣯ । त्वा꣣ । जाम꣡यः꣢ । गि꣡रः꣢꣯ । दे꣡दि꣢꣯शतीः । ह꣣विष्कृ꣡तः꣢ । ह꣣विः । कृ꣡तः꣢꣯ । वा꣣योः꣢ । अ꣡नी꣢꣯के । अ꣣स्थिरन् ॥१३॥

Mantra without Swara
उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः । वायोरनीके अस्थिरन् ॥

उप । त्वा । जामयः । गिरः । देदिशतीः । हविष्कृतः । हविः । कृतः । वायोः । अनीके । अस्थिरन् ॥१३॥

Samveda - Mantra Number : 13
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे अग्ने ज्योतिर्मय परमात्मन् ! (हविष्कृतः) हविष्प्रदातुः—स्वात्मानं हविः कृत्वा तुभ्यं प्रयच्छतो यजमानस्य मम (जामयः) भगिन्यः, भगिनीवत् प्रियाः हितकारिण्यश्चेति भावः। जामिः अन्येऽस्यां जनयन्ति जाम् अपत्यम्, जमतेर्वा स्याद् गतिकर्मणो निर्गमनप्राया भवति। निरु० ३।६। (गिरः) स्तुतिवाचः (त्वा) त्वाम् (देदिशतीः) अतिशयेन भूयो भूयो बोधयन्त्यः। दिश अतिसर्जने धातोर्यङ्लुकि शतरि स्त्रियां रूपम्। देदिशत्यः इति प्राप्ते वा छन्दसि। अ० ६।१।१०६ इति नियमेन वैकल्पिकः पूर्वसवर्णदीर्घः। (वायोः) प्राणाधायकस्य तव (अनीके) समीपे (उप अस्थिरन्) उपस्थिताः सन्ति ॥३॥ अत्र गीर्षु जामित्वारोपाद् रूपकालङ्कारः ॥३॥
Essence
हे परमात्मन् ! अन्तर्यज्ञमनुष्ठातुकामोऽहं श्रद्धाप्रवणो भूत्वा स्वात्ममनः प्राणादिकं हव्यरूपेण तुभ्यं समर्पयन् स्तुतिवाग्भिस्तव गुणान् कीर्तयामि। मदीयं प्रेमोपहारं त्वं स्वीकुरु ॥३॥
Subject
मम गिरः परमात्मनो महिमानं वर्णयन्तीत्याह।
Footnote
१. ऋ० ८।१०२।१३, साम० १५७०।