Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1299

1875 Mantra
Devata- पवमानाध्येता Rishi- पवित्र आङ्गिरसो वा वसिष्ठो वा उभौ वा Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
पा꣣वमानी꣢꣫र्यो अ꣣ध्ये꣡त्यृषि꣢꣯भिः꣣ स꣡म्भृ꣢त꣣ꣳ र꣡स꣢म् । त꣢स्मै꣣ स꣡र꣢स्वती दुहे क्षी꣣र꣢ꣳ स꣣र्पि꣡र्म꣢꣯धूद꣣क꣢म् ॥१२९९॥

पा꣣वमानीः꣢ । यः । अ꣣ध्ये꣡ति꣢ । अ꣣धि । ए꣡ति꣢꣯ । ऋ꣡षि꣢꣯भिः । स꣡म्भृ꣢꣯तम् । सम् । भृ꣣तम् । र꣡स꣢꣯म् । त꣡स्मै꣢꣯ । स꣡र꣢꣯स्वती । दुहे । क्षीर꣢म् । स꣣र्पिः꣢ । म꣡धु꣢꣯ । उद꣣क꣢म् ॥१२९९॥

Mantra without Swara
पावमानीर्यो अध्येत्यृषिभिः सम्भृतꣳ रसम् । तस्मै सरस्वती दुहे क्षीरꣳ सर्पिर्मधूदकम् ॥

पावमानीः । यः । अध्येति । अधि । एति । ऋषिभिः । सम्भृतम् । सम् । भृतम् । रसम् । तस्मै । सरस्वती । दुहे । क्षीरम् । सर्पिः । मधु । उदकम् ॥१२९९॥

Samveda - Mantra Number : 1299
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यः) यो जनः (ऋषिभिः संभृतं रसम्) वेदरहस्यविद्भिः आस्वादितरसरूपाः (पावमानीः) पवमानदेवताका ऋचः (अध्येति२) अर्थज्ञानपूर्वकम् अधीते (तस्मै) जनाय (सरस्वती) वेदमाता (क्षीरम्) दुग्धम्, (सर्पिः) घृतम्, (मधु) माक्षिकम्, (उदकम्) स्वच्छं तोयं च (दुहे) स्वयमेव दुग्धे। [दुह प्रपूरणे, कर्मकर्तरि ‘न दुहस्नुनमाम्’। अ० ३।१।८९ इत्यादिना यक् प्रतिषिध्यते। ‘लोपस्त आत्मनेपदेषु’। अ० ७।१।४१ इति तलोपः] ॥ उक्तं चान्यत्र—‘स्तु॒ता मया॑ वर॒दा वे॑दमा॒ता प्रचो॑दयन्तां पावमा॒नी द्विजाना॑म्। आयुः॑ प्रा॒णं प्र॒जां प॒शुं की॒र्तिं द्रवि॑णं ब्रह्मवर्च॒सम्। मह्यं॑ द॒त्त्वा व्र॑जत ब्रह्मलो॒कम् ॥’ अथ० १९।७१।१ ॥२॥
Essence
वेदाध्ययनेन तदनुकूलाचरणेन च पुरुषार्थिना सता सर्वाः सम्पदः प्राप्तुं शक्यन्ते ॥२॥
Subject
अथ पुनर्वेदाध्ययनफलमाह।