Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1298

1875 Mantra
Devata- पवमानाध्येता Rishi- पवित्र आङ्गिरसो वा वसिष्ठो वा उभौ वा Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
यः꣡ पा꣢वमा꣣नी꣢र꣣ध्ये꣡त्यृषि꣢꣯भिः꣣ स꣡म्भृ꣢त꣣ꣳ र꣡स꣢म् । स꣢र्व꣣ꣳ स꣢ पू꣣त꣡म꣢श्नाति स्वदि꣣तं꣡ मा꣢त꣣रि꣡श्व꣢ना ॥१२९८॥

यः꣢ । पा꣣वमानीः꣢ । अ꣣ध्ये꣡ति꣢ । अ꣣धि । ए꣡ति꣢꣯ । ऋ꣡षि꣢꣯भिः । सं꣡भृ꣢꣯तम् । सम् । भृ꣣तम् । र꣡स꣢꣯म् । स꣡र्व꣢꣯म् । सः । पू꣣त꣢म् । अ꣣श्नाति । स्वदित꣢म् । मा꣣तरि꣡श्व꣢ना ॥१२९८॥

Mantra without Swara
यः पावमानीरध्येत्यृषिभिः सम्भृतꣳ रसम् । सर्वꣳ स पूतमश्नाति स्वदितं मातरिश्वना ॥

यः । पावमानीः । अध्येति । अधि । एति । ऋषिभिः । संभृतम् । सम् । भृतम् । रसम् । सर्वम् । सः । पूतम् । अश्नाति । स्वदितम् । मातरिश्वना ॥१२९८॥

Samveda - Mantra Number : 1298
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यः) यो जनः (ऋषिभिः संभृतं रसम्) वेदरहस्यविद्भिः आस्वादितरसरूपाः (पावमानीः) पवमानदेवताका ऋचः (अध्येति) अर्थज्ञानपूर्वकम् अधीते। [इक् स्मरणे, अदादिः।] (सः) असौ (मातरिश्वना) वायुना (स्वदितम्) स्वादु सम्पादितम् (सर्वम्) सकलम् (पूतम्) पवित्रं भोज्यं वस्तु (अश्नाति) भुङ्क्ते। [अश भोजने क्र्यादिः] ॥१॥ अत्र पावमानीनामृचामध्ययनं सर्वपवित्रभोज्यास्वादनवत् तृप्तिकरमित्युपमायां पर्यवसानान्निदर्शनालङ्कारः२ ॥१॥
Essence
वैदिकीनामृचामर्थज्ञानपूर्वकमध्ययनेन तदनुकूलाचरणेन चाध्येतॄणां महत् कल्याणं सम्पद्यते ॥१॥
Subject
तत्रादौ वेदाध्ययनफलमाह।