Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1296

1875 Mantra
Devata- पवमानः सोमः Rishi- राहूगण आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
स꣡ वृ꣢त्र꣣हा꣡ वृषा꣢꣯ सु꣣तो꣡ व꣢रिवो꣣वि꣡ददा꣢꣯भ्यः । सो꣢मो꣣ वा꣡ज꣢मिवासरत् ॥१२९६॥

सः । वृ꣡त्र꣢हा । वृ꣣त्र । हा꣢ । वृ꣡षा꣢꣯ । सु꣣तः꣢ । व꣣रिवोवि꣢त् । व꣣रिवः । वि꣢त् । अ꣡दा꣢꣯भ्यः । अ । दा꣣भ्यः । सो꣡मः꣢꣯ । वा꣡ज꣢꣯म् । इ꣣व । असरत् ॥१२९६॥

Mantra without Swara
स वृत्रहा वृषा सुतो वरिवोविददाभ्यः । सोमो वाजमिवासरत् ॥

सः । वृत्रहा । वृत्र । हा । वृषा । सुतः । वरिवोवित् । वरिवः । वित् । अदाभ्यः । अ । दाभ्यः । सोमः । वाजम् । इव । असरत् ॥१२९६॥

Samveda - Mantra Number : 1296
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सः) असौ (वृत्रहा) विघ्नहन्ता, (वृषा) सुखवर्षकः, (वरिवोवित्) ऐश्वर्यस्य लम्भकः। [वरिवः इति धननाम। निघं० २।१०।] (अदाभ्यः) अपराजेयः, (सुतः) अभिषुतः, उपासितः (सोमः) रसनिधिः परमेश्वरः (असरत्) उपासकान् प्राप्नोति। कथम् ? (वाजम् इव) यथा कश्चित् वीरः समराङ्गणं प्राप्नोति तद्वत्। [वाज इति सङ्ग्रामनाम। निघं० २।१७] ॥५॥ अत्रोपमालङ्कारः ॥५॥
Essence
यथा कश्चिद् वीरः सेनापतिर्युद्धभूमिं प्राप्य स्वपक्षीयान् योद्धॄन् विजयिनः करोति तथैव परमेश्वर उपासकान् प्राप्य तेभ्यो विजयोपहारं ददाति ॥५॥
Subject
अथ पुनरपि परमात्मविषयमाह।