Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1293

1875 Mantra
Devata- पवमानः सोमः Rishi- राहूगण आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
स꣢ प꣣वि꣡त्रे꣢ विचक्ष꣣णो꣡ हरि꣢꣯रर्षति धर्ण꣣सिः꣢ । अ꣣भि꣢꣫ योनिं꣣ क꣡नि꣢क्रदत् ॥१२९३॥

सः । प꣣वि꣡त्रे꣢ । वि꣣चक्षणः꣢ । वि꣣ । चक्षणः꣢ । ह꣡रिः꣢꣯ । अ꣣र्षति । ध꣣र्णसिः꣢ । अ꣣भि꣢ । यो꣡नि꣢꣯म् । क꣡नि꣢꣯क्रदत् ॥१२९३॥

Mantra without Swara
स पवित्रे विचक्षणो हरिरर्षति धर्णसिः । अभि योनिं कनिक्रदत् ॥

सः । पवित्रे । विचक्षणः । वि । चक्षणः । हरिः । अर्षति । धर्णसिः । अभि । योनिम् । कनिक्रदत् ॥१२९३॥

Samveda - Mantra Number : 1293
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सः) असौ (विचक्षणः) विद्रष्टा, (धर्णसिः) दिव्यगुणकर्मस्वभावानां धारकः (हरिः) पापहर्ता परमेश्वरः (कनिक्रदत्) उपदिशन् (योनिम् अभि) स्वनिवासगृहभूतं जीवात्मानमभिलक्ष्य (पवित्रे) परिपूते हृदये (अर्षति) गच्छति ॥२॥
Essence
पवित्रात्मान एव जनाः परमेश्वरप्राप्तेरधिकारिणो भवन्ति ॥२॥
Subject
अथ कीदृशः परमेश्वरः किं कुर्वन् कुत्र गच्छतीत्याह।