Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1290

1875 Mantra
Devata- पवमानः सोमः Rishi- नृमेध आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ए꣣ष꣢ शु꣣꣬ष्म्य꣢꣯सिष्यदद꣣न्त꣡रि꣢क्षे꣣ वृ꣢षा꣣ ह꣡रिः꣢ । पु꣣ना꣢꣫न इन्दु꣣रि꣢न्द्र꣣मा꣡ ॥१२९०॥

ए꣣षः꣢ । शु꣣ष्मी꣢ । अ꣣सिष्यदत् । अन्त꣡रि꣢क्षे । वृ꣡षा꣢꣯ । ह꣡रिः꣢꣯ । पु꣣नानः꣢ । इ꣡न्दुः꣢꣯ । इ꣡न्द्र꣢꣯म् । आ ॥१२९०॥

Mantra without Swara
एष शुष्म्यसिष्यददन्तरिक्षे वृषा हरिः । पुनान इन्दुरिन्द्रमा ॥

एषः । शुष्मी । असिष्यदत् । अन्तरिक्षे । वृषा । हरिः । पुनानः । इन्दुः । इन्द्रम् । आ ॥१२९०॥

Samveda - Mantra Number : 1290
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(एषः) अयम् (शुष्मी) बलवान्। [शुष्ममिति बलनाम शोषयतीति सतः। निरु० २।२३।] (वृषा) आनन्दवर्षकः (हरिः) पापहर्ता (इन्दुः) रसमयः परमेश्वरः (इन्द्रम्) जीवात्मानम् (आ पुनानः) समन्तात् पावयन् (अन्तरिक्षे) मनोमयकोशे (असिष्यदत्) प्रस्यन्दते ॥५॥
Essence
यथाऽन्तरिक्षे स्थितश्चन्द्रमाश्चन्द्रिकारसं प्रसारयति तथा हृद्देशे स्थितः परमेश्वर आनन्दरसं प्रवाहयति ॥५॥
Subject
अथ पुनः स एव विषयो वर्ण्यते।