Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 129

1875 Mantra
Devata- इन्द्रः Rishi- मधुच्छन्दा वैश्वामित्रः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
ए꣡न्द्र꣢ सान꣣सि꣢ꣳ र꣣यि꣢ꣳ स꣣जि꣡त्वा꣢नꣳ सदा꣣स꣡ह꣢म् । व꣡र्षि꣢ष्ठमू꣣त꣡ये꣢ भर ॥१२९॥

आ꣢ । इ꣣न्द्र । सानसि꣢म् । र꣣यि꣢म् । स꣣जि꣡त्वा꣢नम् । स꣣ । जि꣡त्वा꣢꣯नम् । स꣣दास꣡ह꣢म् । स꣣दा । स꣡ह꣢꣯म् । व꣡र्षि꣢꣯ष्ठम् । ऊ꣣त꣡ये꣢ । भ꣣र । ॥१२९॥

Mantra without Swara
एन्द्र सानसिꣳ रयिꣳ सजित्वानꣳ सदासहम् । वर्षिष्ठमूतये भर ॥

आ । इन्द्र । सानसिम् । रयिम् । सजित्वानम् । स । जित्वानम् । सदासहम् । सदा । सहम् । वर्षिष्ठम् । ऊतये । भर । ॥१२९॥

Samveda - Mantra Number : 129
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) परमैश्वर्यशालिन् परमैश्वर्यप्रद परमात्मन् राजन् वा ! त्वम् (सानसिम्) संभजनीयम्। सानसि पर्णसि उ० ४।११० अनेनायं षण सम्भक्तौ धातोरसि प्रत्ययान्तो निपातितः। (सजित्वानम्२) सहभवान् शत्रून् जयतीति सजित्वा तम्। अत्र अन्येभ्योऽपि दृश्यते अ० ३।२।७५ अनेन जिधातोः क्वनिप् प्रत्ययः। सहस्य सभावः। (सदासहम्) सर्वदा दुष्टानां शत्रूणाम् अभिभवहेतुम्, सदा दुःखानां सहनहेतुं च। सदा पूर्वात् षह मर्षणे धातोः क्विप् प्रत्ययः। (वर्षिष्ठम्) अतिशयेन वृद्धं वृद्धिकारकं च। अत्र वृद्धशब्दात् अतिशायने इष्ठनि प्रियस्थिर० अ० ६।४।१५७ इत्यनेन वृद्धस्य वर्षिरादेशः। (रयिम्) अहिंसासत्यशमदमादिकां दैवीं सम्पदम् विद्याधनबलचक्रवर्तिराज्यादिकं भौतिकमैश्वर्यं च अस्माकम् (ऊतये) रक्षणाय, प्रगतये, प्रीतये, तृप्त्यै वा। अव रक्षणगतिकान्तिप्रीतितृप्त्यादिषु, तस्मात् क्तिनि रूपम्। (आभर) आहर। हृञ् हरणे, हृग्रहोर्भश्छन्दसि ८।२।३५ वा० इति हस्य भः ॥५॥३ अत्र श्लेषालङ्कारः ॥५॥
Essence
सर्वैर्मनुष्यैः परमैश्वर्यवन्तं परमात्मानं राजानं च याचित्वा स्वपौरुषेण चाहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहशौचसन्तोषतपः- स्वाध्यायेश्वरप्रणिधानशमदमतेजस्तपःक्षमाधृत्यादिरूपा दैवी सम्पद् विद्याधनबलदीर्घायुष्यपशुपुत्रपौत्रकलत्रचक्रवर्तिराज्यादिरूपा भौतिकी सम्पच्च समुपार्जनीया ॥५॥
Subject
अथेन्द्रो धनं प्रार्थ्यते।
Footnote
१. ऋ० १।८।१, अथ० २०।७०।१७। २. सजित्वानं सहभूतानां शत्रूणां जेतृ—इति वि०। सजित्वानो जयशीलाः पुरुषाः तैः सहितम्—इति भ०। समानशत्रुजयशीलम्, धनेन हि शूरान् भृत्यान् सम्पाद्य शत्रवो जीयन्ते—इति सा०। समानानां शत्रूणां विजयकारकम्—इति ऋ० १।८।१ भाष्ये द०। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं परमात्मपक्षे व्याख्यातवान्।