Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1289

1875 Mantra
Devata- पवमानः सोमः Rishi- नृमेध आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ए꣣ष꣢ ग꣣व्यु꣡र꣢चिक्रद꣣त्प꣡व꣢मानो हिरण्य꣣युः꣢ । इ꣡न्दुः꣢ सत्रा꣣जि꣡दस्तृ꣢꣯तः ॥१२८९॥

ए꣣षः꣢ । ग꣣व्युः꣢ । अ꣣चिक्रदत् । प꣡व꣢꣯मानः । हि꣣रण्य꣢युः । इ꣡न्दुः꣢꣯ । स꣣त्राजि꣢त् । स꣣त्रा । जि꣢त् । अ꣡स्तृ꣢꣯तः । अ । स्तृ꣣तः ॥१२८९॥

Mantra without Swara
एष गव्युरचिक्रदत्पवमानो हिरण्ययुः । इन्दुः सत्राजिदस्तृतः ॥

एषः । गव्युः । अचिक्रदत् । पवमानः । हिरण्ययुः । इन्दुः । सत्राजित् । सत्रा । जित् । अस्तृतः । अ । स्तृतः ॥१२८९॥

Samveda - Mantra Number : 1289
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(एषः) अयम् (गव्युः) उपासकान् उपदेशवाचः प्रापयितुकामः। [गौः इति वाङ्नाम। निघं० १।११।] (हिरण्ययुः) यशो ज्योतिश्च प्रापयितुकामः। [यशो वै हिरण्यम्। ऐ० ब्रा० ७।१८। ज्योतिर्हि हिरण्यम् श० ४।३।४।२१।] (सत्राजित्) युगपत् सर्वेषां कामक्रोधादीनां शत्रूणां विजेता, (अस्तृतः) केनापि अहिंसितः (पवमानः) पावकः (इन्दुः) आनन्दरसेन क्लेदकः तेजस्वी परमेश्वरः (अचिक्रदत्) अस्मान् स्वसमीपम् आह्वयति। [क्रदि आह्वाने रोदने च, णिजन्ते लुङ्] ॥४॥
Essence
परमेश्वरः सदैवोपासकैः सह सख्यं स्थापयितुमुद्यतस्तिष्ठति ॥४॥
Subject
अथ पुनरपि परमात्मविषयमाह।