Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1288

1875 Mantra
Devata- पवमानः सोमः Rishi- नृमेध आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ए꣣ष꣢꣫ नृभि꣣र्वि꣡ नी꣢यते दि꣣वो꣢ मू꣣र्धा꣡ वृषा꣢꣯ सु꣣तः꣢ । सो꣢मो꣣ व꣡ने꣢षु विश्व꣣वि꣢त् ॥१२८८॥

ए꣣षः꣢ । नृ꣡भिः꣢꣯ । वि । नी꣣यते । दिवः꣢ । मू꣣र्धा꣢ । वृ꣡षा꣢꣯ । सु꣣तः꣢ । सो꣡मः꣢꣯ । व꣡ने꣢꣯षु । वि꣡श्ववि꣢त् । वि꣣श्व । वि꣢त् ॥१२८८॥

Mantra without Swara
एष नृभिर्वि नीयते दिवो मूर्धा वृषा सुतः । सोमो वनेषु विश्ववित् ॥

एषः । नृभिः । वि । नीयते । दिवः । मूर्धा । वृषा । सुतः । सोमः । वनेषु । विश्ववित् । विश्व । वित् ॥१२८८॥

Samveda - Mantra Number : 1288
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(दिवः मूर्धा) तेजसः शिरोमणिः, (वृषा) सुखवर्षकः, (विश्ववित्) सर्वज्ञः सर्वान्तर्यामी, (वनेषु) विजनेषु अरण्येषु (नृभिः) उपासकैर्मनुष्यैः (सुतः) ध्यानेन आविष्कृतः (एषः) अयम् (सोमः) रसमयः परमेश्वरः तैः (वि नीयते) विशेषेण जीवने आनीयते ॥३॥
Essence
उपासका जनाः परमात्मानं साक्षात्कृत्य तं स्वजीवनस्याङ्गतां नयेयुः ॥३॥
Subject
अथ पुनः परमात्मन एव विषयो वर्ण्यते।