Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1286

1875 Mantra
Devata- पवमानः सोमः Rishi- नृमेध आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ए꣣ष꣢ क꣣वि꣢र꣣भि꣡ष्टु꣢तः प꣣वि꣢त्रे꣣ अ꣡धि꣢ तोशते । पु꣣ना꣢꣫नो घ्नन्नप꣣ द्वि꣡षः꣢ ॥१२८६॥

ए꣣षः꣢ । क꣣विः꣢ । अ꣣भि꣡ष्टु꣢तः । अ꣣भि꣢ । स्तु꣣तः । प꣣वि꣡त्रे꣢ । अ꣡धि꣢꣯ । तो꣣शते । पुनानः꣢ । घ्नन् । अ꣡प꣢꣯ । द्वि꣡षः꣢꣯ ॥१२८६॥

Mantra without Swara
एष कविरभिष्टुतः पवित्रे अधि तोशते । पुनानो घ्नन्नप द्विषः ॥

एषः । कविः । अभिष्टुतः । अभि । स्तुतः । पवित्रे । अधि । तोशते । पुनानः । घ्नन् । अप । द्विषः ॥१२८६॥

Samveda - Mantra Number : 1286
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अभिष्टुतः) स्तुतिविषयीकृतः (कविः) मेधावी क्रान्तद्रष्टा (एषः) अयं सोमः परमेश्वरः (पुनानः) अन्तःकरणं पवित्रं कुर्वन्, (द्विषः) द्वेषवृत्तीः (अपघ्नन्) अपहिंसन् (पवित्रे अधि) पवित्रे अन्तःकरणे (तोशते२) दीप्यते ॥१॥
Essence
मलिने दर्पणे यथा प्रतिबिम्बं न भासते तथैव मलिनेऽन्तरात्मनि परमेश्वरो न प्रकाशते ॥१॥
Subject
तत्रादौ परमात्मविषयमाह।