Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1285

1875 Mantra
Devata- पवमानः सोमः Rishi- नृमेध आङ्गिरसः (प्रथमपादः) इध्मवाहो दार्ढच्युतः (शेषास्त्रयः पादाः) Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ए꣣ष꣡ सूर्ये꣢꣯ण हासते सं꣣व꣡सा꣢नो वि꣣व꣡स्व꣢ता । प꣡ति꣢र्वा꣣चो꣡ अदा꣢꣯भ्यः ॥१२८५

एषः꣢ । सूर्येण । हा꣣सते । सं꣡वसा꣢नः । स꣣म् । व꣡सा꣢꣯नः । वि꣣व꣡स्व꣢ता । वि꣣ । व꣡स्व꣢꣯ता । प꣡तिः꣢꣯ । वा꣣चः꣢ । अ꣡दा꣢꣯भ्यः । अ । दा꣣भ्यः ॥१२८५॥

Mantra without Swara
एष सूर्येण हासते संवसानो विवस्वता । पतिर्वाचो अदाभ्यः ॥१२८५

एषः । सूर्येण । हासते । संवसानः । सम् । वसानः । विवस्वता । वि । वस्वता । पतिः । वाचः । अदाभ्यः । अ । दाभ्यः ॥१२८५॥

Samveda - Mantra Number : 1285
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(संवसानः) सर्वं स्वतेजसा आच्छादयन्। [वस आच्छादने, अदादिः।] (एषः) अयं सोमः परमेश्वरः (विवस्वता) तमोविवासनवता (सूर्येण) आदित्येन (हासते) स्पर्धते। [हासति स्पर्धायाम्। निरु० ९।३७।] अपि च, (अदाभ्यः) दब्धुं पराजेतुमशक्यः एषः (वाचः पतिः) गीष्पतिः अपि विद्यते ॥६॥
Essence
परमेश्वरः सूर्यविद्युदादिभ्योऽप्यधिकतेजा वाचस्पतीनामपि च मूर्धन्यो विद्यते ॥६॥ अस्मिन् खण्डे परमात्मनो जीवात्मनश्च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
Subject
अथ पुनरपि तमेव विषयमाह।