Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1284

1875 Mantra
Devata- पवमानः सोमः Rishi- प्रियमेध आङ्गिरसः (प्रथमपादः) नृमेध आङ्गिरसः (शेषास्त्रयः पादाः) Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ए꣣ष꣡ सूर्य꣢꣯मरोचय꣣त्प꣡व꣢मानो꣣ अ꣢धि꣣ द्य꣡वि꣢ । प꣣वि꣡त्रे꣢ मत्स꣣रो꣡ मदः꣢꣯ ॥१२८४

एषः꣢ । सू꣡र्य꣢꣯म् । अ꣣रोचयत् । प꣡व꣢꣯मानः । अ꣡धि꣢꣯ । द्य꣡वि꣢꣯ । प꣣वि꣡त्रे꣢ । म꣣त्सरः꣢ । म꣡दः꣢꣯ ॥१२८४॥

Mantra without Swara
एष सूर्यमरोचयत्पवमानो अधि द्यवि । पवित्रे मत्सरो मदः ॥१२८४

एषः । सूर्यम् । अरोचयत् । पवमानः । अधि । द्यवि । पवित्रे । मत्सरः । मदः ॥१२८४॥

Samveda - Mantra Number : 1284
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(एषः) अयम् (पवमानः) क्रियाशीलः सोमः परमात्मा (द्यवि अधि) द्युलोके (सूर्यम्) आदित्यम् (अरोचयत्) रोचितवानस्ति। अपि च, (मदः) आनन्दमयः एष परमात्मा (पवित्रे) पूतेऽन्तरात्मनि (मत्सरः) आनन्दजनको जायते। [माद्यतेः ‘कृधूमदिभ्यः कित्’ उ० ३।७३ इत्यनेन सरन् प्रत्ययः] ॥५॥
Essence
बाह्ये जगति सूर्यचन्द्रतारावल्यादौ मानवदेहाभ्यन्तरे मनोमस्तिष्कादौ च यत् कर्तृत्वं महत्त्वं च दृश्यते तत् सर्वं परमात्मन एव ॥५॥
Subject
अथ परमात्मनः कर्तृत्वं महत्त्वं चाह।