Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1283

1875 Mantra
Devata- पवमानः सोमः Rishi- प्रियमेध आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ए꣣ष꣢꣫ वृषा꣣ क꣡नि꣢क्रदद्द꣣श꣡भि꣢र्जा꣣मि꣡भि꣢र्य꣣तः꣢ । अ꣣भि꣡ द्रोणा꣢꣯नि धावति ॥१२८३॥

ए꣣षः꣢ । वृ꣡षा꣢꣯ । क꣡नि꣢꣯क्रदत् । द꣣श꣡भिः꣢ । जा꣣मि꣡भिः꣢ । य꣣तः꣢ । अ꣣भि꣢ । द्रो꣡णा꣢꣯नि । धा꣣वति ॥१२८३॥

Mantra without Swara
एष वृषा कनिक्रदद्दशभिर्जामिभिर्यतः । अभि द्रोणानि धावति ॥

एषः । वृषा । कनिक्रदत् । दशभिः । जामिभिः । यतः । अभि । द्रोणानि । धावति ॥१२८३॥

Samveda - Mantra Number : 1283
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(वृषा) बलवान्, (दशभिः जामिभिः) दशभिः अङ्गुलिभिः, अङ्गुलिवत् परस्परसम्बद्धैः दशभिः यमनियमैः (यतः)नियन्त्रितः (एषः) अयं सोमः जीवात्मा (द्रोणानि अभि) सांसारिकान् भोगान् प्रति (धावति) धावेत् [विध्यर्थे लेट्] ॥४॥
Essence
सांसारिकेषु भोगेष्वत्यासक्तिर्नोचिता ॥४॥
Subject
अथ जीवात्मनः कर्तव्यमाह।
Footnote
१. ऋ० ९।२८।४।