Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1282

1875 Mantra
Devata- पवमानः सोमः Rishi- प्रियमेध आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ए꣣ष꣢ दे꣣वः꣡ शु꣢भाय꣣ते꣢ऽधि꣣ यो꣢ना꣣व꣡म꣢र्त्यः । वृ꣣त्रहा꣡ दे꣢व꣣वी꣡त꣢मः ॥१२८२॥

ए꣣षः꣢ । दे꣣वः꣢ । शु꣣भायते । अ꣡धि꣢꣯ । यो꣡नौ꣢꣯ । अ꣡म꣢꣯र्त्यः । अ । म꣣र्त्यः । वृत्रहा꣢ । वृ꣣त्र । हा꣢ । दे꣣ववी꣡त꣢मः । दे꣣व । वी꣡त꣢꣯मः ॥१२८२॥

Mantra without Swara
एष देवः शुभायतेऽधि योनावमर्त्यः । वृत्रहा देववीतमः ॥

एषः । देवः । शुभायते । अधि । योनौ । अमर्त्यः । अ । मर्त्यः । वृत्रहा । वृत्र । हा । देववीतमः । देव । वीतमः ॥१२८२॥

Samveda - Mantra Number : 1282
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अमर्त्यः) अमरणशीलः, (वृत्रहा) विघ्नहन्ता, (देववीतमः) अतिशयेन दिव्यगुणानां प्रापकः (एष देवः) अयं स्तोता जीवः (योनौ अधि) परमात्मरूपे गृहे (शुभायते) शोभते ॥३॥
Essence
यथा गृही गृहेण शोभते तथा जीवात्मा परमात्मानं प्राप्य शोभते ॥३॥
Subject
अथ जीवात्मनः परमात्मप्राप्तिविषयमाह।
Footnote
१. ऋ० ९।२८।३।