Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1281

1875 Mantra
Devata- पवमानः सोमः Rishi- प्रियमेध आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ए꣣ष꣢ प꣣वि꣡त्रे꣢ अक्षर꣣त्सो꣡मो꣢ दे꣣वे꣡भ्यः꣢ सु꣣तः꣢ । वि꣢श्वा꣣ धा꣡मा꣢न्यावि꣣श꣢न् ॥१२८१॥

ए꣣षः꣢ । प꣣वि꣡त्रे꣢ । अ꣣क्षरत् । सो꣡मः꣢꣯ । दे꣣वे꣡भ्यः꣢ । सु꣣तः꣢ । वि꣡श्वा꣢꣯ । धा꣡मा꣢꣯नि । आ꣣वि꣢शन् । आ꣣ । विश꣢न् ॥१२८१॥

Mantra without Swara
एष पवित्रे अक्षरत्सोमो देवेभ्यः सुतः । विश्वा धामान्याविशन् ॥

एषः । पवित्रे । अक्षरत् । सोमः । देवेभ्यः । सुतः । विश्वा । धामानि । आविशन् । आ । विशन् ॥१२८१॥

Samveda - Mantra Number : 1281
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(देवेभ्यः) शरीरस्थेभ्य आत्ममनोबुद्धिप्राणादिभ्यः (सुतः) अभिषुतः (एषः सोमः) अयं ब्रह्मानन्दरसः (पवित्रे) पूतेऽन्तरात्मनि (अक्षरत्) क्षरितोऽस्ति, किञ्च (विश्वा धामानि) सर्वान् अन्नमयप्राणमयमनोमयादिकोशान् (आविशन्) व्याप्नुवन् वर्तते ॥२॥
Essence
अन्तरात्मनि पवित्रे सत्येव ब्रह्मानन्दरसानुभवो जायते ॥२॥
Subject
अथ ब्रह्मानन्दरसविषयमाह।
Footnote
१. ऋ० ९।२८।२।