Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1280

1875 Mantra
Devata- पवमानः सोमः Rishi- प्रियमेध आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ए꣣ष꣢ वा꣣जी꣢ हि꣣तो꣡ नृभि꣢꣯र्विश्व꣣वि꣡न्मन꣢꣯स꣣स्प꣡तिः꣢ । अ꣢व्यं꣣ वा꣢रं꣣ वि꣡ धा꣢वति ॥१२८०॥

ए꣣षः꣢ । वा꣣जी꣢ । हि꣣तः꣢ । नृ꣡भिः꣢꣯ । वि꣣श्ववि꣢त् । वि꣣श्व । वि꣢त् । म꣡नसः꣢꣯ । प꣡तिः꣢꣯ । अ꣡व्य꣢꣯म् । वा꣡र꣢꣯म् । वि । धा꣣वति ॥१२८०॥

Mantra without Swara
एष वाजी हितो नृभिर्विश्वविन्मनसस्पतिः । अव्यं वारं वि धावति ॥

एषः । वाजी । हितः । नृभिः । विश्ववित् । विश्व । वित् । मनसः । पतिः । अव्यम् । वारम् । वि । धावति ॥१२८०॥

Samveda - Mantra Number : 1280
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(वाजी) बलवान्, (नृभिः हितः) मनुष्यैरन्तःकरणे धृतः, (विश्ववित्) सर्वज्ञः सर्वान्तर्यामी, (मनसः पतिः) मनसः अधीश्वरः (एषः) अयं सोमः परमेश्वरः (अव्यम्) अव्ययम् अविनश्वरम् (वारम्) वरणीयं जीवात्मानम् (वि धावति) सद्यो गच्छति ॥१॥
Essence
यथा पिता प्रियं पुत्रं प्रति गच्छति तथा परमात्मा जीवात्मानं प्रेम्णा प्राप्नोति ॥१॥
Subject
तत्रादौ परमात्मजीवात्मविषयमाह।
Footnote
१. ऋ० ९।२८।१, ‘अव्यो॒ वारं॒’ इति भेदः।