Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 128

1875 Mantra
Devata- इन्द्रः Rishi- श्रुतकक्षः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
मा꣡ न꣢ इन्द्रा꣣भ्या꣢३꣱दि꣢शः꣣ सू꣡रो꣢ अ꣣क्तु꣡ष्वा य꣢꣯मत् । त्वा꣢ यु꣣जा꣡ व꣢नेम꣣ त꣢त् ॥१२८॥

मा ꣢ । नः꣣ । इन्द्र । अभि꣢ । आ꣣दि꣡शः꣢ । आ꣣ । दि꣡शः꣢꣯ । सूरः꣢꣯ । अ꣣क्तु꣡षु꣢ । आ । य꣣मत् । त्वा꣢ । यु꣣जा꣢ । व꣣नेम । त꣢त् ॥१२८॥

Mantra without Swara
मा न इन्द्राभ्या३दिशः सूरो अक्तुष्वा यमत् । त्वा युजा वनेम तत् ॥

मा । नः । इन्द्र । अभि । आदिशः । आ । दिशः । सूरः । अक्तुषु । आ । यमत् । त्वा । युजा । वनेम । तत् ॥१२८॥

Samveda - Mantra Number : 128
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) परमवीर परमात्मन् राजन् वा ! (आदिशः२) कस्मादपि दिग्भागात् (सूरः३) अवसरं दृष्ट्वाऽकस्मात् सरणशीलः कामक्रोधादिरक्षोगणश्चौरादिवर्गो वा। यथा यास्काचार्येण सूर्य शब्दः सृ गतौ धातोर्निष्पादितस्तथैव सूरशब्दोऽपि तस्मादेव धातोर्निष्पादयितुं शक्यम्। द्रष्टव्यम् निरु० १२।१४। (अक्तुषु) अज्ञानरात्रिषु तिमिरनिशासु वा। अक्तुरिति रात्रिनाम। निघं० १।७। (नः) अस्मान् (मा)(अभि आ यमत्४) अभ्याक्रामेत्। अभि आङ् पूर्वाद् यम उपरमे धातोर्लेटि बहुलं छन्दसि अ० २।४।७३ इति शपो लुकि यच्छादेशाभावः। लेटोऽडाटौ अ० ३।४।९४ इत्यडागमः। यदि च अभ्याक्रामेत् तर्हि (त्वा) त्वया। युष्मदस्तृतीयैकवचने सुपां सुलुक्० अ० ७।१।३९ इति पूर्वसवर्णदीर्घः। (युजा) सहायकेन, वयम् (तत्) रक्षोगणं चौरादिवर्गं वा (वनेम५) हिंस्याम, समूलमुन्मूलयितुं प्रभवेम ॥४॥ अत्र श्लेषालङ्कारः ॥४॥
Essence
जगत्यस्मिन्नज्ञानतिमिरे तमःपूर्णायां रात्रौ वा निवसतामस्माकं छिद्रं प्रेक्ष्य यः कोऽपि कामक्रोधादिश्चौरलुण्ठकादिर्वाऽऽक्रम्यास्मान् जिघांसति तं परमात्मनो नृपस्य च साहाय्येन वयं धूलिसात् कुर्याम ॥४॥
Subject
अथेन्द्रस्य सख्यं प्राप्य वयमाक्रान्तॄन् विजयेमहीति प्रार्थ्यते।
Footnote
१. ऋ० ८।९२।३१ ऋषिः श्रुतकक्षः सुकक्षो वा। २. आभिमुख्येन युद्धार्थं ये आदिश्यन्ते ते अभ्यादिशः आज्ञाकरा इत्यर्थः—इति वि०। आदेष्टा, प्रवृत्तिरोधक आदेशः। यो नः पूषन्नघो वृको दुःशेव आदिदेशति। अप स्म तं पथोजहि। ऋ० १।४२।२ इति मन्त्रदर्शनात्—इति भ०। आदिशः आदेष्टा समन्तादायुधानि अतिसृजन्—इति सा०। ३. सूरः प्रेरकः शत्रुः०—इति भ०। सूरः, सृ गतौ, सर्वत्र सरणशीलः राक्षसः—इति सा०। उणादौ तु सुसूधाञ्गृधिभ्यः क्रन् उ० २।२५ इति षू धातोः क्रन्। ४. मा आयमत् नाभिगच्छेदयम् इत्यर्थः—भ०। मा अभ्यागमत् आ आभिमुख्येन मा नियन्ताऽऽगन्ता भवतु—इति सा०। ५. वनेम वनतिर्यद्यप्यन्यत्र सम्भजनार्थस्तथापीह हिंसार्थो द्रष्टव्यः। हिंस्याम—इति० वि०। वनेम लभेमहि—इति भ०। वनेम हन्याम, श्रथश्लथक्लथ हिंसार्थाः, वन च इत्यत्र पठितत्वाद् हिंसार्थः—इति सा०।