Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1278

1875 Mantra
Devata- पवमानः सोमः Rishi- राहूगण आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ए꣣ष꣢꣫ स्य पी꣣त꣡ये꣢ सु꣣तो꣡ हरि꣢꣯रर्षति धर्ण꣣सिः꣢ । क्र꣢न्द꣣न्यो꣡नि꣢म꣣भि꣢ प्रि꣣य꣢म् ॥१२७८॥

ए꣣षः꣢ । स्यः । पी꣣त꣡ये꣢ । सु꣣तः꣢ । ह꣣रिः꣢꣯ । अ꣣र्षति । धर्णसिः꣢ । क्र꣡न्द꣢꣯न् । यो꣡नि꣢꣯म् । अ꣣भि꣢ । प्रि꣣य꣢म् ॥१२७८॥

Mantra without Swara
एष स्य पीतये सुतो हरिरर्षति धर्णसिः । क्रन्दन्योनिमभि प्रियम् ॥

एषः । स्यः । पीतये । सुतः । हरिः । अर्षति । धर्णसिः । क्रन्दन् । योनिम् । अभि । प्रियम् ॥१२७८॥

Samveda - Mantra Number : 1278
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(एषः स्यः) अयं सः (धर्णसिः) देहधारकः। [धृञ् धारणे, बाहुलकाद् औणादिकः असिप्रत्ययः नुडागमश्च।] (हरिः) जीवात्मा (पीतये) कर्मफलास्वादनाय (सुतः) उत्पादितः (क्रन्दन्) क्रन्दनं कुर्वन् (प्रियम् योनिम् अभि) प्रियं जन्मकारणं मातापितृरूपम् अभिलक्ष्य (अर्षति) गच्छति ॥५॥
Essence
मातुर्गर्भे दशमासान् शयितः शिशुर्बहिर्निःसृत्य कर्मफलानि भुञ्जानः श्रेष्ठानि नूतनकर्माणि च कुर्वाण उन्नतिं कुर्यात् ॥५॥
Subject
अथ जीवात्मनो देहे जन्म वर्णयति।
Footnote
१. ऋ० ९।३८।६।