Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1277

1875 Mantra
Devata- पवमानः सोमः Rishi- राहूगण आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ए꣣ष꣢꣫ स्य मद्यो꣣ र꣡सोऽव꣢꣯ चष्टे दि꣣वः꣡ शिशुः꣢꣯ । य꣢꣫ इन्दु꣣र्वा꣢र꣣मा꣡वि꣢शत् ॥१२७७॥

ए꣣षः꣢ । स्यः । म꣡द्यः꣢꣯ । र꣡सः꣢꣯ । अ꣡व꣢꣯ । च꣣ष्टे । दिवः꣢ । शि꣡शुः꣢꣯ । यः । इ꣡न्दुः꣢꣯ । वा꣡र꣢꣯म् । आ꣡वि꣢꣯शत् । आ꣣ । अ꣡वि꣢꣯शत् ॥१२७७॥

Mantra without Swara
एष स्य मद्यो रसोऽव चष्टे दिवः शिशुः । य इन्दुर्वारमाविशत् ॥

एषः । स्यः । मद्यः । रसः । अव । चष्टे । दिवः । शिशुः । यः । इन्दुः । वारम् । आविशत् । आ । अविशत् ॥१२७७॥

Samveda - Mantra Number : 1277
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—चन्द्रपक्षे। ग्रहणान्मोक्षानन्तरं चन्द्रमसं वर्णयति—(एषः स्यः) अयं सः (मद्यः) मदाय मोदाय हितः, (रसः) चन्द्रिकारसवर्षकः, (दिवः शिशुः) आकाशस्य शिशुरिव विद्यमानः चन्द्रः (अव चष्टे) पूर्णतः प्रकाशितोऽस्ति, (यः इन्दुः) यश्चन्द्रः, पूर्वम् (वारम्) सूर्यचन्द्रयोर्मध्ये पृथिव्या आगमनात् आवरणम्। [वृ संवरणे भ्वादिः, यद्वा, वृञ् आवरणे चुरादिः। तस्माद् घञ्।] (आविशत्) प्रविष्टवान् आसीत् ॥ द्वितीयः—जीवात्मपक्षे। (एषः स्यः) अयं सः (मद्यः) मादयितुं योग्यः (रसः) रसपायी, (दिवः शिशुः) द्योतमानस्य परमात्मनः पुत्र इव प्रियः जीवात्मा (अवचष्टे) परमात्मानं पश्यति, (यः इन्दुः) यो जीवात्मा पूर्वम् (वारम्) परमात्मदर्शनवारकं भोग्यं जगत् प्रति (आविशत्) आकृष्ट आसीत् ॥४॥ अत्र श्लेषालङ्कारः। ‘दिवः शिशुः’ इत्यत्र च लुप्तोपमा। ‘रसः’ इत्यस्य रसवर्षके रसपायिनि वा लक्षणा ॥४॥
Essence
चन्द्रग्रहणं पूर्णमास्यामेव जायते। ग्रहणकाले चन्द्रोंऽशतः पूर्णतो वा अन्धकारावृतो भवति। शनैः शनैश्च तस्य मोक्षः सम्पद्यते। पूर्णमोक्षानन्तरं स पूर्ववत् पूर्णचन्द्रत्वेन भासते। सेयं विज्ञानसम्मता प्राकृतिकी घटना। पौराणिको राहुकेतुवृत्तान्तस्तु काल्पनिक एव। तथैव जीवात्माऽपि भोग्यं जगत् प्रति समाकृष्टस्तेन ग्रस्यते। ततो मोक्षानन्तरमेव स परमात्मानं साक्षात्कुरुते ॥४॥
Subject
अथ चन्द्रवर्णनमुखेन जीवात्मानं वर्णयति।
Footnote
१. ऋ० ९।३८।५।