Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1276

1875 Mantra
Devata- पवमानः सोमः Rishi- राहूगण आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ए꣣ष꣡ स्य मानु꣢꣯षी꣣ष्वा꣢ श्ये꣣नो꣢꣫ न वि꣣क्षु꣡ सी꣢दति । ग꣡च्छ꣢ञ्जा꣣रो꣢꣫ न यो꣣षि꣡त꣢म् ॥१२७६॥

ए꣣षः꣢ । स्यः । मा꣡नु꣢꣯षीषु । आ । श्ये꣣नः꣢ । न । वि꣣क्षु꣢ । सी꣣दति । ग꣡च्छ꣢꣯न् । जा꣣रः꣢ । न । यो꣣षि꣡त꣢म् ॥१२७६॥

Mantra without Swara
एष स्य मानुषीष्वा श्येनो न विक्षु सीदति । गच्छञ्जारो न योषितम् ॥

एषः । स्यः । मानुषीषु । आ । श्येनः । न । विक्षु । सीदति । गच्छन् । जारः । न । योषितम् ॥१२७६॥

Samveda - Mantra Number : 1276
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(योषितम्) जायां (गच्छन्) प्रेम्णा व्रजन् (जारः न) पतिः इव (गच्छन्) धार्मिकीं प्रजां प्रेम्णा व्रजन् (एषः स्यः) अयं सः सोमः रसागारः परमेश्वरः (श्येनः न) आदित्यः इव। [श्येन आदित्यो भवति, श्यायतेर्गतिकर्मणः। निरु० १४।१३।] (मानुषीषु विक्षु) मानवीषु प्रजासु (आ सीदति) आतिष्ठति ॥३॥ अत्रोपमालङ्कारः ॥३॥
Essence
पतिर्यथा जायायां स्निह्यति तथा परमेश्वरो धार्मिक्यां प्रजायां स्निह्यति। यथा च दिवि तिष्ठन् सूर्यः सर्वाः प्रजा भौतिकप्रकाशप्रदानेनानुगृह्णाति तथैव परमेश्वरो दिव्यप्रकाशप्रदानेन ॥३॥
Subject
अथ परमात्मनोऽनुग्रहं प्रदर्शयति।
Footnote
१. ऋ० ९।३८।४।