Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1275

1875 Mantra
Devata- पवमानः सोमः Rishi- राहूगण आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ए꣣तं꣢ त्रि꣣त꣢स्य꣣ यो꣡ष꣢णो꣣ ह꣡रि꣢ꣳ हिन्व꣣न्त्य꣡द्रि꣢भिः । इ꣢न्दु꣣मि꣡न्द्रा꣢य पी꣣त꣡ये꣢ ॥१२७५॥

ए꣣त꣢म् । त्रि꣣त꣡स्य꣢ । यो꣡ष꣢꣯णः । ह꣡रि꣢꣯म् । हि꣣न्वन्ति । अ꣡द्रि꣢꣯भिः । अ । द्रि꣣भिः । इ꣡न्दु꣢꣯म् । इ꣡न्द्रा꣢꣯य । पी꣣त꣡ये꣢ ॥१२७५॥

Mantra without Swara
एतं त्रितस्य योषणो हरिꣳ हिन्वन्त्यद्रिभिः । इन्दुमिन्द्राय पीतये ॥

एतम् । त्रितस्य । योषणः । हरिम् । हिन्वन्ति । अद्रिभिः । अ । द्रिभिः । इन्दुम् । इन्द्राय । पीतये ॥१२७५॥

Samveda - Mantra Number : 1275
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(त्रितस्य) मेधया तीर्णतमस्य उपासकस्य। [त्रितस्तीर्णतमो मेधया। निरु० ४।६।] (योषणः) ध्यानवृत्तयः। [याः युवन्ति मेलयन्ति परमात्मानं जीवात्मना सह ताः योषणः। यु मिश्रणामिश्रणयोः, अदादिः।] (एतम्) इमम् (हरिम्) दोषहर्तारम् (इन्दुम्) रसनिधिं परमेश्वरम् (इन्द्राय पीतये) जीवात्मनः पानाय (अद्रिभिः) प्रणवजपादिरूपैः पाषाणैः (हिन्वन्ति) प्रेरयन्ति ॥२॥
Essence
योगाभ्यासेन मनुष्यः परमात्मानं साक्षात्कर्त्तुं क्षमते ॥२॥
Subject
अथ परमात्मदर्शनविषयमाह।
Footnote
१. ऋ० ९।३२।२, साम० ७७१। उभयत्र ‘आदीं॑ त्रि॒तस्य॒’ इति भेदः, ऋषिश्च श्यावाश्व आत्रेयः। ऋ० ९।३८।२।