Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1270

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ए꣣ष꣢ रु꣣क्मि꣡भि꣢रीयते वा꣣जी꣢ शु꣣भ्रे꣡भि꣢र꣣ꣳशु꣡भिः꣢ । प꣢तिः꣣ सि꣡न्धू꣢नां꣣ भ꣡व꣢न् ॥१२७०॥

ए꣣षः꣢ । रु꣣क्मि꣡भिः꣣ । ई꣣यते । वाजी꣢ । शु꣣भ्रे꣡भिः꣢ । अ꣣ꣳशु꣡भिः꣢ । प꣡तिः꣢꣯ । सि꣡न्धू꣢꣯नाम् । भ꣡व꣢꣯न् ॥१२७०॥

Mantra without Swara
एष रुक्मिभिरीयते वाजी शुभ्रेभिरꣳशुभिः । पतिः सिन्धूनां भवन् ॥

एषः । रुक्मिभिः । ईयते । वाजी । शुभ्रेभिः । अꣳशुभिः । पतिः । सिन्धूनाम् । भवन् ॥१२७०॥

Samveda - Mantra Number : 1270
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(वाजी) बलवान् (एषः) अयं सोमः जीवात्मा (सिन्धूनाम्) देहस्थानां रक्तवहानां नाडीनाम् (पतिः) स्वामी (भवन्) जायमानः सन् (रुक्मिभिः) तेजोमद्भिः। [रोचते इति रुक्मः, रुच दीप्तौ, युजिरुचितिजां कुश्च। उ० १।१४६ इति मक् प्रत्ययः, चकारस्य कुत्वं च।] (शुभ्रेभिः) स्वच्छैः (अंशुभिः) मनोबुद्धिप्राणेन्द्रियादिभिः (ईयते) व्यापारं करोति ॥५॥
Essence
देहाधिष्ठात्रा जीवात्मना देहस्थानि मनोबुद्ध्यादीनि बाह्यानि च साधनानि प्रयुज्य सदैवोन्नतिः कार्या ॥५॥
Subject
अथ जीवात्मानं वर्णयति।
Footnote
१. ऋ० ९।१५।५।