Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 127

1875 Mantra
Devata- इन्द्रः Rishi- भारद्वाजः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
य꣡ आन꣢꣯यत्परा꣣व꣢तः꣢ सु꣡नी꣢ती तु꣣र्व꣢शं꣣ य꣡दु꣢म् । इ꣢न्द्रः꣣ स꣢ नो꣣ यु꣢वा꣣ स꣡खा꣢ ॥१२७॥

यः꣢ । आ꣡न꣢꣯यत् । आ꣣ । अ꣡न꣢꣯यत् । प꣣राव꣡तः꣢ । सु꣡नी꣢꣯ती । सु । नी꣣ति । तुर्व꣡श꣢म् । य꣡दु꣢꣯म् । इ꣡न्द्रः꣢꣯ । सः । नः꣣ । यु꣡वा꣢꣯ । स꣡खा꣢꣯ । स । खा꣣ ॥१२७॥

Mantra without Swara
य आनयत्परावतः सुनीती तुर्वशं यदुम् । इन्द्रः स नो युवा सखा ॥

यः । आनयत् । आ । अनयत् । परावतः । सुनीती । सु । नीति । तुर्वशम् । यदुम् । इन्द्रः । सः । नः । युवा । सखा । स । खा ॥१२७॥

Samveda - Mantra Number : 127
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमेश्वरपरः। (यः परावतः) परागताद् दूरदेशादपि। परावत इति दूरनाम। निघं० ३।२६। उपसर्गाच्छन्दसि धात्वर्थे।’ अ० ५।१।११८, अनेन परा इत्युपसर्गाद् वतिः प्रत्ययः। (यदुम्२) सामीप्याय प्रयतमानं नरम्। यदवः इति मनुष्यनामसु पठितम् निघं० २।३। (सुनीती) उत्तमनीत्या। सुपां सुलुक्पूर्वसवर्ण०’ अ० ७।१।३९ इति तृतीयैकवचने पूर्वसवर्णदीर्घः। (तुर्वशम्) समीपम्। तुर्वश इत्यन्तिकनामसु पठितम्। निघं० २।१६। (आ अनयत्) आनयति, (सः) असौ (युवा) नित्यतरुणः, यः कदापि बालवद् वृद्धवद् वा शक्तिविकलो न भवति तादृशः, सदा सशक्त इत्यर्थः, (इन्द्रः) परमेश्वरः (नः) अस्माकम् (सखा) सहायकः सुहृद्, भवतु। अथ द्वितीयः—विद्युत्परः। (यः) विमानादियानेषु प्रयुक्तः सन् (यदुम्) पुरुषार्थिनं जनम् (परावतः) अत्यन्तदूरदेशादपि (तुर्वशम्) इच्छाधीनवेगेन। त्वरा वेगो वशे यथा स्यात् तथा। (सुनीती) सुनीत्या शोभनया यात्रया सह, किञ्चिदपि यात्राकष्टमनुत्पाद्येत्यर्थः, (आनयत्) देशान्तरं प्रापयति, (सः) असौ प्रसिद्धः (युवा३) यन्त्रेषु प्रयुक्तः सन् पदार्थानां संयोजनक्रियया वियोजनक्रियया वा पदार्थान्तराणां रचने साधनभूतः। यु मिश्रणेऽमिश्रणे च इति धातोः कनिन् युवृषितक्षि०’ उ० १।१५६ इति कनिन् प्रत्ययः। युवा प्रयौति कर्माणि। निरु० ४।१९। (इन्द्रः) विद्युत् (नः) अस्माकम् (सखा) सखेव कार्यसाधको भवतु। अथ तृतीयः—राजपरः४। (यः) राजा (परावतः) अधर्ममार्गात् प्रच्याव्य (यदुम्) यतमानम् उद्योगिनम् (तुर्वशम्५) हिंसकानां वशकरं मनुष्यम्। तुर्वश इति मनुष्यनाम। निघं० २।३। (सुनीती) सुनीतौ धर्ममार्गे। अत्र सप्तम्येकवचनस्य पूर्वसवर्णदीर्घः। (आनयत्) आनयति, (सः) असौ (युवा) शरीरेण मनसाऽऽत्मना च युवकः (इन्द्रः) अधर्मविदारको राजा (नः) प्रजानामस्माकम् (सखा) सहायकः भवतु ॥३॥ अत्र श्लेषालङ्कारः ॥३॥
Essence
यथा विमानादियानेषु प्रयुक्तो विद्युदग्निः सुदूरादपि प्रदेशाद् विमानादिचालकानामिच्छानुसारिगत्या जनान् देशान्तरं प्रापयति, यथा वा कश्चित् सुयोग्यो राजाऽधर्ममार्गे दूरंगतान् जनाँस्ततो निवर्त्य धर्ममार्गे प्रवर्तयति, तथैव परमेश्वरः उन्नत्यै प्रयतमानमपि कदाचित् कुसङ्गे पतित्वा सन्मार्गाद् दूरंगतं जनं स्वान्तिकमानीय धार्मिकं करोति ॥३॥ अत्र तुर्वशं नाम राजपुत्रं यदुं च इति विवरणकृत्। तथैव तुर्वशं यदुं च राजानौ शत्रुभिः दुरेऽपास्तौ इति भरतस्वामी। तुर्वशं यदुं च एतत्संज्ञौ राजानौ शत्रुभिः दूरदेशे प्रक्षिप्तौ इति सायणः। तौ इन्द्रः सुनीत्या दूरदेशादानीतवान् इति सर्वेषामभिप्रायः। तत्सर्वं प्रलपितमात्रम्, वेदानां सृष्ट्यादौ परब्रह्मणः सकाशात् प्रादुर्भूतत्वात् तत्र परवर्तिनां केषाञ्चिद् राजादीनामितिहासस्यासंभवात्, निघण्टौ तुर्वशस्य मनुष्यनामसु अन्तिकनामसु च पठितत्वात्, यदोश्चापि मनुष्यनामसु कीर्तनाच्च ॥३॥
Subject
अथेन्द्रनाम्ना परमेश्वरस्य विद्युतो राज्ञश्च सख्यं प्रार्थयते।
Footnote
१. ऋ० ६।४५।१, ऋषिः शंयुः बार्हस्पत्यः। २. अत्र यती प्रयत्ने इत्यस्माद् बाहुलकाणौदिकः उः प्रत्ययः, तकारस्य दकारः इति ऋ० १।३६।१८ भाष्ये द०। ३. युवा यौति मिश्रयति पदार्थैः सह, पदार्थान् वियोजयति वा यः सः इति ऋ० १।१२।६ भाष्ये द०। ४. दयानन्दर्षिरपि ऋग्भाष्ये मन्त्रमिमं राजपक्षे व्याख्यातवान्। ५. (तुर्वशेषु) तूर्वन्तीति तुरः तेषां वशकर्तारो मनुष्याः तेषु इति ऋ० १।१०८।८ भाष्ये द०।