Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1269

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ए꣣ष꣢ हि꣣तो꣡ वि नी꣢꣯यते꣣ऽन्तः꣢ शु꣣न्ध्या꣡व꣢ता प꣣था꣢ । य꣡दी꣢ तु꣣ञ्ज꣢न्ति꣣ भू꣡र्ण꣢यः ॥१२६९॥

ए꣣षः꣢ । हि꣣तः꣢ । वि । नी꣣यते । अन्त꣡रिति꣢ । शु꣣न्ध्या꣡व꣢ता । प꣣था꣢ । य꣡दि꣢꣯ । तु꣣ञ्ज꣡न्ति꣢ । भू꣡र्ण꣢꣯यः ॥१२६९॥

Mantra without Swara
एष हितो वि नीयतेऽन्तः शुन्ध्यावता पथा । यदी तुञ्जन्ति भूर्णयः ॥

एषः । हितः । वि । नीयते । अन्तरिति । शुन्ध्यावता । पथा । यदि । तुञ्जन्ति । भूर्णयः ॥१२६९॥

Samveda - Mantra Number : 1269
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यदि) चेत् (भूर्णयः२) ज्ञानादिभिः परिपूर्णाः जनाः। [बिभ्रति पुष्णन्ति स्वात्मानं ये ते भूर्णयः। बिभर्तेः ‘घृणिपृश्निपार्ष्णिचूर्णिभूर्णयः।’ उ० ४।५३’ इति नि प्रत्ययः।] (तुञ्जन्ति) परमेश्वराय आत्मानं समर्पयन्ति। [तुञ्जतिर्दानकर्मा। निघं० ३।२०।] तदा अनेन (शुन्ध्यावता पथा) शुद्धियुक्तेन मार्गेण। [शुन्ध शुद्धौ, भ्वादिः।] (अन्तः हितः) अन्तर्मुखीकृतः (एषः) अयं सोमः जीवात्मा (वि नीयते) विशेषेण मुक्तिं प्रति नीयते ॥४॥
Essence
अहंकारं परित्यज्य परमात्मानं प्रति स्वात्मसमर्पणेन मोक्षमार्गः सरलीभवति ॥४॥
Subject
अथ पुनस्तमेव विषयमाह।
Footnote
१. ऋ० ९।१५।३, ‘शु॒भ्राव॑ता प॒था’ इति पाठः। २. भूर्णयः भरणशीलाः—इति सा०। भ्रमणशीलाः—इति वि०।