Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1268

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ए꣣तं꣡ मृ꣢जन्ति꣣ म꣢र्ज्य꣣मु꣢प꣣ द्रो꣡णे꣢ष्वा꣣य꣡वः꣢ । प्र꣣चक्राणं꣢ म꣣ही꣡रिषः꣢꣯ ॥१२६८॥

ए꣣त꣢म् । मृ꣣जन्ति । म꣡र्ज्य꣢꣯म् । उ꣡प꣢꣯ । द्रो꣡णे꣢꣯षु । आ꣣य꣡वः꣢ । प्र꣣चक्राण꣢म् । प्र꣣ । चक्राण꣢म् । म꣣हीः꣢ । इ꣡षः꣢꣯ ॥१२६८॥

Mantra without Swara
एतं मृजन्ति मर्ज्यमुप द्रोणेष्वायवः । प्रचक्राणं महीरिषः ॥

एतम् । मृजन्ति । मर्ज्यम् । उप । द्रोणेषु । आयवः । प्रचक्राणम् । प्र । चक्राणम् । महीः । इषः ॥१२६८॥

Samveda - Mantra Number : 1268
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(महीः) महतीः (इषः२) ज्ञानकर्मसम्पत्तीः (प्रचक्राणम्) प्रकर्षेण सञ्चितवन्तम्। [प्रपूर्वात् करोतेर्लिटि कानजादेशः।] (मर्ज्यम्) शोध्यम्। [मृजू शौचालङ्कारयोः, यत् प्रत्ययः।] (एतम्) इमं जीवात्मानम् (आयवः) मनुष्याः (द्रोणेषु) उपासनारसकुण्डेषु (उपमृजन्ति) उपशोधयन्ति ॥३॥
Essence
जीवात्मा यदाऽविद्यापापादिभिर्लिप्यते तदा तस्य शोधनाय परमेश्वरोपासनमपेक्ष्यते ॥३॥
Subject
अथात्मशुद्धिविषय उच्यते।
Footnote
१. ऋ० ९।१५।७। २. महीः इषः महान्ति अन्नानि—इति सा०। इषः धानाः करम्भः पुरोडाशः—इति वि०।