Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1267

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ए꣣ष꣢ पु꣣रु꣡ धि꣢यायते बृह꣣ते꣢ दे꣣व꣡ता꣢तये । य꣢त्रा꣣मृ꣡ता꣢स꣣ आ꣡श꣢त ॥१२६७॥

ए꣣षः꣢ । पु꣣रु꣢ । धि꣣यायते । बृहते꣢ । दे꣣व꣡ता꣢तये । य꣡त्र꣢꣯ । अ꣣मृ꣡ता꣢सः । अ꣣ । मृ꣡ता꣢꣯सः । आ꣡श꣢꣯त ॥१२६७॥

Mantra without Swara
एष पुरु धियायते बृहते देवतातये । यत्रामृतास आशत ॥

एषः । पुरु । धियायते । बृहते । देवतातये । यत्र । अमृतासः । अ । मृतासः । आशत ॥१२६७॥

Samveda - Mantra Number : 1267
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(एषः) अयं सोमः जीवात्मा (बृहते) महते (देवतातये) मोक्षपदलाभाय। [अत्र ‘सर्वदेवात् तातिल्’। अ० ४।४।१४२ इत्यनेन तातिल् प्रत्ययः। तस्य च लित्वात् ‘लिति’ अ० ६।१।१९३ इति प्रत्ययात् पूर्वमुदात्तम्।] (पुरु) बहु (धियायते) ऋतम्भरां प्रज्ञां कामयते। [धियम् आत्मनः कामयते इति धियायते, ईकारस्य इयादेशः छान्दसः।] (यत्र) यस्मिन् मोक्षपदे (अमृतासः) पूर्वे अमरा जीवात्मानः (आशत) आसते। [अश्नुते व्याप्तिकर्मा। निघं० २।१८] ॥२॥
Essence
मोक्षप्राप्तये मुमुक्षुता योगाभ्यासः सदाचारश्चापेक्ष्यते ॥२॥
Subject
अथ पुनरपि तमेव विषयमाह।
Footnote
१. ऋ० ९।१५।२, ‘आशत’ इत्यत्र ‘आस॑ते’ इति पाठः।