Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1266

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ए꣣ष꣢ धि꣣या꣢ या꣣त्य꣢ण्व्या꣣ शू꣢रो꣣ र꣡थे꣢भिरा꣣शु꣡भिः꣢ । ग꣢च्छ꣣न्नि꣡न्द्र꣢स्य निष्कृ꣣त꣢म् ॥१२६६॥

ए꣣षः꣢ । धि꣣या꣢ । या꣢ति । अ꣡ण्व्या꣢꣯ । शू꣡रः꣢꣯ । र꣡थे꣢꣯भिः । आ꣣शु꣡भिः꣢ । ग꣡च्छ꣢꣯न् । इ꣡न्द्र꣢꣯स्य । नि꣣ष्कृत꣢म् । निः꣣ । कृत꣢म् ॥१२६६॥

Mantra without Swara
एष धिया यात्यण्व्या शूरो रथेभिराशुभिः । गच्छन्निन्द्रस्य निष्कृतम् ॥

एषः । धिया । याति । अण्व्या । शूरः । रथेभिः । आशुभिः । गच्छन् । इन्द्रस्य । निष्कृतम् । निः । कृतम् ॥१२६६॥

Samveda - Mantra Number : 1266
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(इन्द्रस्य) परमेश्वरस्य (निष्कृतम्) परमं धाम (गच्छन्) व्रजन् (एषः) अयं सोमः जीवात्मा (अण्व्या) सूक्ष्मया (धिया) ऋतम्भरया प्रज्ञया (याति) उच्चस्थितिं प्राप्नोति, यथा (शूरः) कश्चिद् वीरो जनः (आशुभिः) वेगवद्भिः (रथैः) स्यन्दनैः याति तद्वदिति लुप्तोपमम् ॥१॥ अत्र लुप्तोपमालङ्कारः ॥१॥
Essence
कैवल्यप्राप्तौ ऋतम्भरा प्रज्ञा परमसहायिका जायते ॥१॥
Subject
तत्रादौ मुक्तिविषयमाह।
Footnote
१. ऋ० ९।१५।१।