Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1263

1875 Mantra
Devata- पवमानः सोमः Rishi- शुनःशेप आजीगर्तिः स देवरातः कृत्रिमो वैश्वामित्रः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ए꣣ष꣢꣫ दिवं꣣ व्या꣡स꣢रत्ति꣣रो꣢꣫ रजा꣣ꣳस्य꣡स्तृ꣢तः । प꣡व꣢मानः स्वध्व꣣रः꣢ ॥१२६३॥

ए꣣षः꣢ । दि꣡व꣢꣯म् । व्या꣡स꣢꣯रत् । वि꣣ । आ꣡स꣢꣯रत् । ति꣣रः꣢ । र꣡जा꣢꣯ꣳसि । अ꣡स्तृ꣢꣯तः । अ । स्तृ꣣तः । प꣡व꣢꣯मानः । स्व꣣ध्वरः꣢ । सु꣣ । अध्वरः꣢ ॥१२६३॥

Mantra without Swara
एष दिवं व्यासरत्तिरो रजाꣳस्यस्तृतः । पवमानः स्वध्वरः ॥

एषः । दिवम् । व्यासरत् । वि । आसरत् । तिरः । रजाꣳसि । अस्तृतः । अ । स्तृतः । पवमानः । स्वध्वरः । सु । अध्वरः ॥१२६३॥

Samveda - Mantra Number : 1263
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(एषः) अयम् (स्वध्वरः) सूपासनायज्ञः, (अस्तृतः) विघ्नैरहिंसितः (पवमानः) पुरुषार्थी जीवात्मा (रजांसि) रजस्तमोगुणान्। [अत्र एकशेषः।] (तिरः) तिरस्कृत्य (दिवम्) द्युतिमन्तं परमात्मानम् (व्यासरत्) वेगेन प्राप्नोति ॥८॥
Essence
मनुष्यं विघ्नास्तदैव मार्गात् प्रच्यावयन्ति यदा स रजस्तमोभ्यामभिभूतो भवति ॥८॥
Subject
अथ पुनरपि जीवात्मविषय उच्यते।
Footnote
१. ऋ० ९।३।८ ‘रजां॒स्यस्पृ॑तः’ इति पाठः।