Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1261

1875 Mantra
Devata- पवमानः सोमः Rishi- शुनःशेप आजीगर्तिः स देवरातः कृत्रिमो वैश्वामित्रः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ए꣣ष꣢ दे꣣वो꣢ वि꣣पा꣢ कृ꣣तो꣢ऽति꣣ ह्व꣡रा꣢ꣳसि धावति । प꣡व꣢मानो꣣ अ꣡दा꣢भ्यः ॥१२६१॥

एषः꣢ । दे꣣वः꣢ । वि꣣पा꣢ । कृ꣣तः꣢ । अ꣡ति꣢꣯ । ह्व꣡रा꣢꣯ꣳसि । धा꣣वति । प꣡व꣢꣯मानः । अ꣡दा꣢꣯भ्यः । अ । दा꣣भ्यः ॥१२६१॥

Mantra without Swara
एष देवो विपा कृतोऽति ह्वराꣳसि धावति । पवमानो अदाभ्यः ॥

एषः । देवः । विपा । कृतः । अति । ह्वराꣳसि । धावति । पवमानः । अदाभ्यः । अ । दाभ्यः ॥१२६१॥

Samveda - Mantra Number : 1261
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(एषः) अयम् (विपा) मेधाविना विदुषा। [विप इति मेधाविनाम। निघं० ३।१५।] (कृतः) संस्कृतः (पवमानः) पुरुषार्थी। [पवते गतिकर्मा। निघं० २।१४।] अत एव (अदाभ्यः) केनापि पराजेतुमशक्यः (देवः) तेजस्वी जीवात्मा (ह्वरांसि) कुटिलानि कर्माणि, कुटिलान् शत्रून् वा। [ह्वृ कौटिल्ये, औणादिकः असुन् प्रत्ययः।] (अति) अतीत्य (धावति) अग्रे सरति ॥६॥
Essence
विदुषाऽऽचार्येण यदा मनुष्यस्यात्मा संस्क्रियते तदा मनुष्यः सबलो भूत्वा सर्वा अपि बाधाः पराजित्य समाजेऽग्रगण्यो जायते ॥६॥
Subject
अथ पुनरपि तमेव जीवात्मविषयमाह।
Footnote
१. ऋ० ९।३।२।