Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1260

1875 Mantra
Devata- पवमानः सोमः Rishi- शुनःशेप आजीगर्तिः स देवरातः कृत्रिमो वैश्वामित्रः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ए꣣ष꣢ दे꣣वो꣡ वि꣢प꣣न्यु꣢भिः꣣ प꣡व꣢मान ऋता꣣यु꣡भिः꣢ । ह꣢रि꣣र्वा꣡जा꣢य मृज्यते ॥१२६०॥

ए꣡षः꣢ । दे꣣वः꣢ । वि꣣पन्यु꣡भिः꣢ । प꣡व꣢꣯मानः । ऋ꣣तायु꣡भिः꣢ । ह꣡रिः꣢꣯ । वा꣡जा꣢꣯य । मृ꣣ज्यते ॥१२६०॥

Mantra without Swara
एष देवो विपन्युभिः पवमान ऋतायुभिः । हरिर्वाजाय मृज्यते ॥

एषः । देवः । विपन्युभिः । पवमानः । ऋतायुभिः । हरिः । वाजाय । मृज्यते ॥१२६०॥

Samveda - Mantra Number : 1260
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(एषः) अयम् (देवः) विजिगीषुः। [दीव्यतेर्विजिगीषाकर्मणो रूपम्।] (पवमानः) पुरुषार्थी (हरिः) कर्मफलभोगाय देहाद् देहान्तरं हृतो जीवात्मा (ऋतायुभिः२) सत्याचरणैः (विपन्युभिः) परमात्मस्तोतृभिः विद्वद्भिः (वाजाय) बलप्रदानाय (मृज्यते) पवित्रीक्रियते ॥५॥
Essence
मानवदेहं प्राप्तो जीवात्मा परमात्मस्तोतॄणां सत्याचरणवतां विदुषां सङ्गतिं कृत्वा स्वमुन्नयेत् ॥५॥
Subject
अथ पुनर्जीवात्मविषयमाह।
Footnote
१. ऋ० ९।३।३। २. ऋतायुभिः यज्ञकामैः सत्यकामैर्वा—इति सा०। ऋतो यज्ञः तं युञ्जन्ति ऋतायवः ऋत्विजः तैः—इति वि०।