Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1259

1875 Mantra
Devata- पवमानः सोमः Rishi- शुनःशेप आजीगर्तिः स देवरातः कृत्रिमो वैश्वामित्रः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ए꣣ष꣢ दे꣣वो꣡ र꣢थर्यति꣣ प꣡व꣢मानो दिशस्यति । आ꣣वि꣡ष्कृ꣢णोति वग्व꣣नु꣢म् ॥१२५९॥

एषः꣢ । दे꣣वः꣢ । र꣣थर्यति । प꣡व꣢꣯मानः । दि꣣शस्यति । आविः꣢ । आ꣣ । विः꣢ । कृ꣣णोति । वग्वनु꣢म् ॥१२५९॥

Mantra without Swara
एष देवो रथर्यति पवमानो दिशस्यति । आविष्कृणोति वग्वनुम् ॥

एषः । देवः । रथर्यति । पवमानः । दिशस्यति । आविः । आ । विः । कृणोति । वग्वनुम् ॥१२५९॥

Samveda - Mantra Number : 1259
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(एषः) अयम् (देवः) कर्मफलभोक्ता जीवः (रथर्यति२) कर्मफलानि भोक्तुं देहरथं कामयते। [रथर्यतीति सिद्धस्तत्प्रेप्सुः, रथं कामयत इति वा इति निरुक्तम् ६।२८। क्यचि रथीयति इति प्राप्ते छान्दसं रूपम्।] (पवमानः) देहरथं गच्छन् अयम् (दिशस्यति) मनोबुद्धिप्राणेन्द्रियादीनां दिङ्निर्देशं करोति। [दिश अतिसर्जने। दिशस् शब्दः कण्ड्वादिषु पठितव्यः।] किञ्च (वग्वनुम्) व्यक्तां वाचम् (आविष्कृणोति) प्रकटयति, उच्चारयति। [वच धातोर्नुप्रत्ययेन सिद्धः ‘वग्नु’ शब्दो वाङ्नामसु पठितः। निघं० १।११। वचेर्वनुच्प्रत्यये वग्वनुर्ज्ञेयः] ॥४॥
Essence
जीवात्मा मानवदेहं प्राप्य ज्ञानसञ्चयं सत्कर्माचरणं व्यक्तया वाचा परोपदेशं च यदि करोति तदा तस्य मानवजन्मप्राप्तिः सफला जायते ॥४॥
Subject
अथ पुनर्जीवात्मविषयमाह।
Footnote
१. ऋ० ९।३।५, ‘दशस्यति’ इति पाठः। २. रथर्यति रथं कामयते—इति सा०। रथैर्याति—इति वि०।