Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1258

1875 Mantra
Devata- पवमानः सोमः Rishi- शुनःशेप आजीगर्तिः स देवरातः कृत्रिमो वैश्वामित्रः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ए꣣ष꣡ विश्वा꣢꣯नि꣣ वा꣢र्या꣣ शू꣢रो꣣ य꣡न्नि꣢व꣣ स꣡त्व꣢भिः । प꣡व꣢मानः सिषासति ॥१२५८॥

ए꣣षः꣢ । वि꣡श्वा꣢꣯नि । वा꣡र्या꣢꣯ । शू꣡रः꣢꣯ । यन् । इ꣣व । स꣡त्व꣢꣯भिः । प꣡व꣢꣯मानः । सि꣣षासति ॥१२५८॥

Mantra without Swara
एष विश्वानि वार्या शूरो यन्निव सत्वभिः । पवमानः सिषासति ॥

एषः । विश्वानि । वार्या । शूरः । यन् । इव । सत्वभिः । पवमानः । सिषासति ॥१२५८॥

Samveda - Mantra Number : 1258
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(पवमानः) स्वात्मानं पवित्रीकुर्वन् (एषः) अयम् जीवात्मा (सत्त्वभिः) स्वकीयैः पुरुषार्थैः (विश्वानि) सर्वाणि (वार्या) वार्याणि, वरणीयानि वस्तूनि (सिषासति) संभक्तुं प्राप्तुम् इच्छति। [षण सम्भक्तौ, सन्नन्तं रूपम्।] कथमिव ? (यन् इव) गच्छन् यथा (शूरः) वीरः कश्चिज्जनः (विश्वानि वार्या) सर्वाणि वरणीयानि प्राप्तव्यानि स्थानानि प्राप्नोति, तद्वत् ॥३॥ अत्रोपमालङ्कारः ॥३॥
Essence
मनुष्यः स्वकीयेन पुरुषार्थेन निखिलान्यप्यभीष्टानि प्राप्तुं शक्नोति ॥३॥
Subject
अथ जीवात्मविषयमाह।
Footnote
१. ऋ० ९।३।४।