Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1257

1875 Mantra
Devata- पवमानः सोमः Rishi- शुनःशेप आजीगर्तिः स देवरातः कृत्रिमो वैश्वामित्रः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ए꣣ष꣡ विप्रै꣢꣯र꣣भि꣡ष्टु꣢तो꣣ऽपो꣢ दे꣣वो꣡ वि गा꣢हते । द꣢ध꣣द्र꣡त्ना꣢नि दा꣣शु꣡षे꣢ ॥१२५७॥

ए꣣षः꣢ । वि꣡प्रैः꣢꣯ । वि । प्रैः꣣ । अभि꣡ष्टु꣢तः । अ꣣भि꣢ । स्तु꣣तः । अपः꣢ । दे꣣वः꣢ । वि । गा꣣हते । द꣡ध꣢꣯त् । र꣡त्ना꣢꣯नि । दा꣣शु꣡षे꣢ ॥१२५७॥

Mantra without Swara
एष विप्रैरभिष्टुतोऽपो देवो वि गाहते । दधद्रत्नानि दाशुषे ॥

एषः । विप्रैः । वि । प्रैः । अभिष्टुतः । अभि । स्तुतः । अपः । देवः । वि । गाहते । दधत् । रत्नानि । दाशुषे ॥१२५७॥

Samveda - Mantra Number : 1257
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(विप्रैः) विपश्चिद्भिः उपासकैः (अभिष्टुतः) आभिमुख्येन स्तुतः (एषः) अयम् (देवः) कर्मफलप्रदाता सोमः परमेश्वरः (अपः) मनुष्यैः कृतानि कर्माणि (विगाहते) आलोडयति, निरीक्षते इत्यर्थः। अथ च (दाशुषे) दानिने आत्मसमर्पकाय शुभकर्मकारिणे जनाय (रत्नानि) रमणीयानि फलानि (दधत्) ददाति ॥२॥
Essence
न्यायकारी परमेश्वरः शुभकर्मणां शुभं फलमशुभकर्मणां चाशुभं फलं कर्मकर्त्रे प्रयच्छति ॥२॥
Subject
अथ परमात्मनः कर्मफलदातृत्वमाह।
Footnote
१. ऋ० ९।३।६।