Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1256

1875 Mantra
Devata- पवमानः सोमः Rishi- शुनःशेप आजीगर्तिः स देवरातः कृत्रिमो वैश्वामित्रः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ए꣣ष꣢ दे꣣वो꣡ अम꣢꣯र्त्यः पर्ण꣣वी꣡रि꣢व दीयते । अ꣣भि꣡ द्रोणा꣢꣯न्या꣣स꣡द꣢म् ॥१२५६॥

ए꣣षः꣢ । दे꣣वः꣢ । अ꣡म꣢꣯र्त्यः । अ । म꣣र्त्यः । पर्णवीः꣢ । प꣣र्ण । वीः꣢ । इ꣣व । दीयते । अभि꣢ । द्रो꣡णा꣢꣯नी । आ꣣स꣡द꣢म् । आ꣣ । स꣡द꣢꣯म् ॥१२५६॥

Mantra without Swara
एष देवो अमर्त्यः पर्णवीरिव दीयते । अभि द्रोणान्यासदम् ॥

एषः । देवः । अमर्त्यः । अ । मर्त्यः । पर्णवीः । पर्ण । वीः । इव । दीयते । अभि । द्रोणानी । आसदम् । आ । सदम् ॥१२५६॥

Samveda - Mantra Number : 1256
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(एषः) अयम् (अमर्त्यः) अमरः (देवः) कर्मफलभोक्ता जीवात्मरूपः सोमः [दिवु धातुः खादनार्थेऽपि पठितः।] कर्मानुसारम् (द्रोणानि) देहरूपान् द्रोणकलशान् (अभि आसदम्) अभ्यासत्तुम् (पर्णवीः इव) पक्षी इव। [पर्णाभ्यां पतत्त्राभ्यां वेति उड्डीयते इति पर्णवीः पक्षी।] (दीयते) उड्डीय गच्छति। [दीयते गतिकर्मा। निघं० २।१४] ॥१॥ अत्रोपमालङ्कारः ॥१॥
Essence
पक्षी यथोड्डयमानो वृक्षाद् वृक्षान्तरं गच्छति तथैव जीवात्मा पूर्वं देहमुत्सृज्य कर्मफलानि भोक्तुं मातुर्गर्भे द्वितीयं शरीरं गच्छति ॥१॥
Subject
तत्रादौ जीवात्मगतिर्वर्ण्यते।
Footnote
१. ऋ० ९।३।१, ‘दीयति’ इति पाठः।