Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1255

1875 Mantra
Devata- पवमानः सोमः Rishi- पराशरः शाक्त्यः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
म꣣ह꣡त्तत्सोमो꣢꣯ महि꣣ष꣡श्च꣢कारा꣣पां꣡ यद्गर्भोऽवृ꣢꣯णीत दे꣣वा꣢न् । अ꣡द꣢धा꣣दि꣢न्द्रे꣣ प꣡व꣢मान꣣ ओ꣡जोऽज꣢꣯नय꣣त्सू꣢र्ये꣣ ज्यो꣢ति꣣रि꣡न्दुः꣢ ॥१२५५॥

म꣣ह꣢त् । तत् । सो꣡मः꣢꣯ । म꣣हिषः꣢ । च꣣कार । अ꣣पा꣢म् । यत् । ग꣡र्भः꣢꣯ । अ꣡वृ꣢꣯णीत । दे꣣वा꣢न् । अ꣡द꣢꣯धात् । इ꣡न्द्रे꣢꣯ । प꣡व꣢꣯मानः । ओ꣡जः꣢꣯ । अ꣡ज꣢꣯नयत् । सू꣡र्ये꣢꣯ । ज्यो꣡तिः꣢꣯ । इ꣡न्दुः꣢꣯ ॥१२५५॥

Mantra without Swara
महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान् । अदधादिन्द्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिन्दुः ॥

महत् । तत् । सोमः । महिषः । चकार । अपाम् । यत् । गर्भः । अवृणीत । देवान् । अदधात् । इन्द्रे । पवमानः । ओजः । अजनयत् । सूर्ये । ज्योतिः । इन्दुः ॥१२५५॥

Samveda - Mantra Number : 1255
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(महिषः) महान्, (सोमः) जगत्स्रष्टा परमेश्वरः (तत्) वर्ण्यमानम् (महत्) महत्त्वपूर्णं कर्म (चकार) करोति (यत्) अपाम् उदकादीनां पदार्थानाम् (गर्भः) गर्भरूपेण विद्यमानः सः (देवान्) सूर्यचन्द्रवायुविद्युदादीन् प्राणमनश्चक्षुःश्रोत्रादीन् वा (अवृणीत) रक्ष्यत्वेन वृणीते। (पवमानः) कर्मशूरः सः। [पवते गतिकर्मा। निघं० २।१४।] (इन्द्रे) प्राणे, पवने, मनसि वा। [प्राण इवेन्द्रः। श० १२।९।१।१४। यो वै वायुः स इन्द्रो य इन्द्रः स वायुः। श० ४।१।३।१९। मन एवेन्द्रः। श० १२।९।१।१३।] (ओजः) बलम् (अदधात्) अस्थापयत्। (इन्दुः) ज्योतिष्मान् सः (सूर्ये) आदित्ये (ज्योतिः) दीप्तिम् (अजनयत्) उदपादयत् ॥३॥
Essence
परमात्मनो महान्ति कर्माण्याश्चर्यकराणि खलु। प्राणे प्राणनशक्तिं, पवने गतिं, मनसि संकल्पं, सूर्ये दीप्तिं, चन्द्रे ज्योत्स्नां, सरित्सु प्रवाहं, पर्वतेषु दृढतां स एव स्थापयति ॥३॥
Subject
तृतीया ऋक् पूर्वार्चिके ५४२ क्रमाङ्के परमात्मविषये व्याख्यातपूर्वा। अत्रापि स एव विषयो वर्ण्यते।
Footnote
१. ऋ० ९।९७।४१, साम० ५४२।