Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1254

1875 Mantra
Devata- पवमानः सोमः Rishi- पराशरः शाक्त्यः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
म꣡त्सि꣢ वा꣣यु꣢मि꣣ष्ट꣢ये꣣ रा꣡ध꣢से नो꣣ म꣡त्सि꣢ मि꣣त्रा꣡वरु꣢꣯णा पू꣣य꣡मा꣢नः । म꣢त्सि꣣ श꣢र्धो꣣ मा꣡रु꣢तं꣣ म꣡त्सि꣢ दे꣣वा꣢꣫न्मत्सि꣣ द्या꣡वा꣢पृथि꣣वी꣡ दे꣢व सोम ॥१२५४॥

म꣡त्सि꣢꣯ । वा꣣यु꣢म् । इ꣣ष्ट꣡ये꣢ । रा꣡ध꣢꣯से । नः꣣ । म꣡त्सि꣢꣯ । मि꣣त्रा꣢ । मि꣣ । त्रा꣢ । व꣡रु꣢꣯णा । पू꣣य꣡मा꣢नः । म꣡त्सि꣢꣯ । श꣡र्धः꣢꣯ । मा꣡रु꣢꣯तम् । म꣡त्सि꣢꣯ । दे꣣वा꣢न् । म꣡त्सि꣢꣯ । द्या꣡वा꣢꣯ । पृ꣣थि꣡वीइति꣢ । दे꣣व । सोम ॥१२५४॥

Mantra without Swara
मत्सि वायुमिष्टये राधसे नो मत्सि मित्रावरुणा पूयमानः । मत्सि शर्धो मारुतं मत्सि देवान्मत्सि द्यावापृथिवी देव सोम ॥

मत्सि । वायुम् । इष्टये । राधसे । नः । मत्सि । मित्रा । मि । त्रा । वरुणा । पूयमानः । मत्सि । शर्धः । मारुतम् । मत्सि । देवान् । मत्सि । द्यावा । पृथिवीइति । देव । सोम ॥१२५४॥

Samveda - Mantra Number : 1254
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (देव) मोदप्रद (सोम) जगत्स्रष्टः परमात्मन् ! त्वम् (नः) अस्माकम् (इष्टये) अभीष्टसिद्धये (राधसे) ऐश्वर्याय च (वायुम्) पवनम् (मत्सि) हर्षयसि, (पूयमानः) प्राप्यमाणः त्वम्। [पवते गतिकर्मा। निघं० २।१४।] (मित्रावरुणा) प्राणापानौ (मत्सि) हर्षयसि। (मारुतं शर्धः) सैनिकानां बलम्। [शर्ध इति बलनाम। निघं० २।९।] (मत्सि) हर्षयसि, (देवान्) विद्वज्जनान् (मत्सि) हर्षयसि, (द्यावापृथिवी) दिवं धरित्रीं च (मत्सि) हर्षयसि। [मदी हर्षग्लेपनयोः भ्वादिः। बहुलं छन्दसि। अ० २।४।७३ इति शपो लुक्] ॥२॥
Essence
यदिदं प्रकृतौ सूर्यचन्द्रपवनभूम्यादिषु, समाजे ब्रह्मक्षत्रविडादिषु, देहे च जीवात्ममनोबुद्धिप्राणापानादिषु हर्षः स्फूर्तिः कर्मनिष्ठादि च दृश्यते तत्सर्वं परमात्मकृतमेव ॥२॥
Subject
अथ परमात्मनः कर्म वर्णयति।
Footnote
१. ऋ० ९।९७।४२।