Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1253

1875 Mantra
Devata- पवमानः सोमः Rishi- पराशरः शाक्त्यः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अ꣡क्रा꣢न्त्समु꣣द्रः꣡ प्र꣢थ꣣मे꣡ वि꣢꣫धर्म꣣न् ज꣡न꣢य꣣न्प्र꣡जा भु꣢꣯वनस्य꣣ गो꣢पाः । वृ꣡षा꣢ प꣣वि꣢त्रे꣣ अ꣢धि꣣ सा꣢नो꣣ अ꣡व्ये꣢ बृ꣣ह꣡त्सोमो꣢꣯ वावृधे स्वा꣣नो꣡ अद्रिः꣢꣯ ॥१२५३॥

अ꣡क्रा꣢꣯न् । स꣣मुद्रः꣢ । स꣣म् । उद्रः꣢ । प्र꣣थमे꣢ । वि꣡ध꣢꣯र्मन् । वि । ध꣣र्मन् । जन꣡य꣢न् । प्र꣣जाः꣢ । प्र꣣ । जाः꣢ । भु꣡व꣢꣯नस्य । गो꣣पाः꣢ । गो꣣ । पाः꣢ । वृ꣡षा꣢꣯ । प꣣वि꣡त्रे꣢ । अ꣡धि꣢꣯ । सा꣡नौ꣢꣯ । अ꣡व्ये꣢꣯ । बृ꣣ह꣢त् । सो꣡मः꣢꣯ । वा꣣वृधे । स्वानः꣢ । अ꣡द्रिः꣢꣯ । अ । द्रिः꣣ ॥१२५३॥

Mantra without Swara
अक्रान्त्समुद्रः प्रथमे विधर्मन् जनयन्प्रजा भुवनस्य गोपाः । वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रिः ॥

अक्रान् । समुद्रः । सम् । उद्रः । प्रथमे । विधर्मन् । वि । धर्मन् । जनयन् । प्रजाः । प्र । जाः । भुवनस्य । गोपाः । गो । पाः । वृषा । पवित्रे । अधि । सानौ । अव्ये । बृहत् । सोमः । वावृधे । स्वानः । अद्रिः । अ । द्रिः ॥१२५३॥

Samveda - Mantra Number : 1253
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
अस्यैव सोमस्य परमात्मनः शासने (समुद्रः) आदित्यः।[समुद्र आदित्यः इति निरुक्तम् १३।१६।] (परमे) उच्चे (विधर्मणि) विशेषेण धारके द्युलोके (अक्रान्) क्राम्यति, स्वधुरि भ्रमति, यः आदित्यः (प्रजाः जनयन्) प्रजाः उत्पादयन् (भुवनस्य) सौरमण्डलस्य (गोपाः) रक्षकोऽस्ति। (पवित्रे) अन्तरिक्षे। [अन्तरिक्षं वै पवित्रम्। काठ० २६।१०।] (अव्ये सानौ अधि) पार्थिवे उन्नतप्रदेशे च (वृषा) वृष्टिकर्ता, (स्वानः) सुवानः, भूम्यादिलोकान् स्वस्वकक्षायां सूर्यं परितः प्रेरयन् (अद्रिः) अविनश्वरः (सोमः) जगत्स्रष्टा परमात्मा (बृहत्) बहु (वावृधे) महिमानमाप्नोति। [वृधु वृद्धौ, लिटि ‘तुजादीनां दीर्घोऽभ्यासस्य।’ अ० ६।१।७ इत्यभ्यासदीर्घः] ॥१॥
Essence
परमेश्वर एव स्वमहिम्ना सूर्यं तं परितो भूमिचन्द्रादीन् ग्रहोपग्रहांश्च भ्रामयति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५२९ क्रमाङ्के परमात्मपर्जन्ययोर्विषये व्याख्याता। अत्र पुनः परमात्मविषय उच्यते।
Footnote
१. ऋ० ९।९७।४० ‘गोपाः’ इत्यत्र ‘राजा॑’ ‘स्वानो अद्रिः’ इत्यत्र ‘सुवान इन्दुः॑’। साम० ५२९।